SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९२ श्रीशारीरकमीमांसाभाष्ये [अ. ३. मानेनानुष्ठेयम्, तस्यैव क्रतुवीर्यवत्तरत्वादिफलश्रुतेरित्यात्रेयः ॥ ४४ ॥ आर्त्विज्यमित्यौडलोमिस्तस्मै हि परिक्रियते । कर्मस्वरूपवत्तदा श्रयमप्यार्त्विज्यम्; साङ्गफलसाधनकर्मानुष्ठानाय हि ऋत्विक्परिक्रियते ॥ ४५ ॥ इति वेदान्तसारे स्वाम्यधिकरणम् ॥ ११ ॥ वेदान्तदीपे - स्वामिनः फलश्रुतेरित्यात्वेयः । उद्गीथाद्युपासनं किं यजमानेनानुष्ठेयम्, उत ऋत्विजेति संशयः । १" यदेव विद्यया करोति...त देव वीर्यवत्तरम्" इति क्रतुवीर्यवत्तरत्वफलं यजमानस्येति दहरोपासनादि - वद्यजमानेनानुष्ठेयमिति पूर्वः पक्षः । कर्माङ्गाश्रयत्वादस्योपासनस्य कर्मणश्चार्त्विज्यत्वेन एतदपि ऋत्विजा ऽनुष्ठेयं, गोदोहनादिवदिति राद्धान्तः । सूत्रार्थस्तु - स्वामिनः- यजमानस्योद्गीथाद्युपासने कर्तृत्वम्, कुतः तस्यैव फलश्रुतेरित्यात्रेयो मन्यते ॥ ४४ ॥ आर्त्विज्यमित्यौडलोमिस्तस्मै हि परिक्रियते ।। क्रत्वङ्गाश्रयत्वेन क्रत्वधिकृतस्यैवास्मिन्नुपासनेऽधिकारात् क्रतोश्चार्त्विज्यत्वेन एतदप्यार्त्विज्यमित्यौडुलोमिराचार्यों मन्यते, यजमानफलसाधनत्वेऽपि क्रतेोस्तदनुष्ठानाय हि ऋत्विक्परिक्रियते ॥ ४५ ॥ इति वेदान्तदीपे स्वाम्यधिकरणम् || ११ || (श्रीशारीरकमीमांसाभाष्ये सहकार्यन्तरविध्यधिकरणम् ।।) - सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ३ । ४ । ४६ ॥ २" तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः" इत्यत्र बाल्यपाण्डित्यवन्मौनमपि विधीयते, उतानूद्यत इति विशये - मौनपाण्डित्यशब्दयोः ज्ञानार्थत्वात्, "पाण्डित्यं निर्विद्य" इति विहितमेव ज्ञानम् २" अथ मुनिः" इत्यनूद्यते; विधिशब्दो नाव श्रूयत इति ॥ २ १. छा. १-१-१० ॥ -२ बृ. ५-५-१ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy