________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.४.]
खाम्यधिकरणम् . दिह च ऋतुफलामतिबन्धरूपस्योद्गीथोपासनफलस्य यजमानाश्रयत्वश्रवणादित्यर्थः । न च गोदोहनादिवदङ्गाश्रयत्वेन यजमानकतकत्वासम्भवः, गोदोहनादिषु बध्वर्युकर्तृकप्रणयनाश्रयगोदोहनोपादानमन्येनाशक्यम् । इह तूगातृकर्टकेऽप्युद्गीथे तस्योद्गीथादेः *रसतमत्वानुसन्धानंयजमानेनैव कर्तुं शक्यते ॥४४॥
-..(सिद्धान्तः)--- इति प्राप्तेऽभिधीयते-- आविज्यमित्यौडुलोमिस्तस्मै हि परि
क्रियते ।३।४।४५॥ __ आत्विज्यम्-ऋत्विजः कर्मोद्गीथायुपासनमित्यौडलोमिराचार्यों मन्यतेः कुतः तस्मै हि-प्रयोजनाय ऋत्विक्परिक्रियते; फलसाधनभूतस्य सागस्य क्रतोरुपादानायेत्यर्थः । कर्मविधिषुर "ऋत्विजो वृणीते"२ "ऋत्विग्भ्यो दक्षिणां ददाति" इति ऋत्विकर्तृकत्वशास्त्रेण फलसाधनभूतं साङ्गं कर्म ऋत्विम्भिरनुष्ठेयमित्यवगम्यते तदन्तर्गतानि कायिकानि मानसानि च कर्माणि ऋत्विकर्तृकाण्येव नच शक्त्यशक्ती तस्य निबन्धनम् । यद्यप्युद्गीथाद्यपासनं पुरुषार्थः, तथापि क्रत्वधिकृताधिकारत्वाक्रतोश्च साङ्गस्य ऋत्विकर्तृकत्वात्, ३ “यदेव विद्यया करोति...तदेव वीयवत्तरम्” इति ऋत्विकर्तृकक्रियोपयोगित्वेन विद्यायास्तदेकककत्वश्रवणात, ऋत्विकर्तृकाण्येतानिदहरादिष्पासनेषु ऋत्विकर्तृकत्वाश्रवणात, "शास्त्रफलं प्रयोक्तरि" इति न्यायाच फलिकर्तृकत्वमेव ॥४५॥
इति श्रीशारीरकमीमांसाभाष्ये स्वाम्यधिकरणम् ॥ ११॥
वेदान्तसारे-स्वामिनः फलश्रुतेरित्यात्रेयः॥ उद्गीथायुपासनं यज
*रसतमादित्वानुसं. पा.---१. यजुः. ६-३-७॥ २ ॥-३. छा. १-१-१०॥ -४. पू. मी. ३-७-१८ ॥
For Private And Personal Use Only