________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९४
श्रीशारीरकमीमांसाभाष्ये [भ. ३. नशीलो भवेत् , निदिध्यासनरूपविद्यावाप्तये । एवमेव त्रितयोपादानेन लन्धविद्यो भवतीत्याह १"अमौनं च मौनं च निर्वियाय ब्राह्मणः" इति। अमौनं मौनेतरसहकारिकलापः तं च मौनं च यथावदुपाददानो विद्याकाष्ठां तदेकनिष्पाद्या लभेतेत्यर्थः । १“स ब्राह्मणः केन स्यात्" इति उक्तादुपायात्किमन्योऽप्युपायोऽस्तीति पृष्टे १“येन स्यात्तेनेदृश एव" इति-येन मौनपर्यन्तेन ब्राह्मणस्स्यादित्युक्तम् , तेनैवेदृशस्स्यात्न केनाप्यन्येनोपायेनेति परिहतम् । अतस्सर्वेष्वाश्रमेषु स्थितस्य विदुषो यज्ञादिसाश्रमधर्मवत्पाण्डित्यादिकं मौनतृतीयं विद्यायास्सहकार्यन्तरं विधीयते ॥ ४६॥
अथ स्यात्-यदि सर्वेष्वाश्रमेषु स्थितानां विदुषां तत्तदाश्रमधर्मसहकारिणी मौनतृतीयसचिवा विद्या ब्रह्ममाप्तिसाधनमुच्यते । कथं तहिं च्छान्दोग्येर "अभिसमावृत्य कुटुम्बे शुचौ देशे" इत्यारभ्य २“स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते" इति यावदायुषं गार्हस्थ्यधर्मेण स्थितिदर्शनमुपपद्यते । अत आहकृत्स्नभावात्तु गृहिणोपसंहारः।३।४॥४७॥ __ तुशब्दश्वोचं व्यावर्तयति ; कृत्वभावात्-कृत्स्नेषु भावात् , कृत्स्ने वाश्रमेषु विद्यायास्सद्भावात् गृहिणोऽप्यस्तीति तेनोपसंहारः; तस्मासर्वाश्रमधर्मप्रदर्शनार्थो गृहिणोपसंहार इत्यभिप्रायः ॥ ४७ ॥ __तथैतस्मिमपि वाक्ये १"ब्राह्मणः पुतेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्य चरति" इति पारिवाज्यैकान्तधर्म प्रतिपाद्य १"तस्माद्राह्मणः पाण्डित्य निर्विद्य" इत्यादिना पारिवा. ज्यधर्मस्थितिहेतुकमौनतृतीयसहकारिविधानं प्रदर्शनार्थमित्याह
मौनवदितरेषामप्युपदेशात्।३।४।४८॥ १. वृ. ५-५-१॥-२. छा. ८-१५ १॥
For Private And Personal Use Only