________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८५
भीशारीरकमीमांसाभाग्ये
[म. ३. नस्मृतेस्तस्य प्रायश्चित्तस्यासम्भवात्-१"आरूढो नैष्ठिकं धर्म वस्तु प्रच्यवते द्विजः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति । अतोऽधिकारलक्षणोक्तं प्रायश्चित्तमितरब्रह्मचारिविषयम् ॥४१॥ उपपूर्वमपीत्येके भावमशनवत्तदुक्तम्।३।४॥४२॥
नैष्ठिकादीनां ब्रह्मचर्यमच्यवनमुपपूर्वम्-उपपातकम्, महापातकेष्वपरिगणितत्वादिति तत्र प्रायश्चित्तस्य भावं-विद्यमानतामप्येके आचार्या मन्यन्ते; अशनवत्-यथा मध्वशनादिनिषेधस्तत्मायश्चित्तं चोपकुर्वाणस्य नैष्ठिकादीनां च समानम् । तदुक्तं स्मृतिकारैः २ "उत्तरेषां चैतदविरोधि" इति । गुरुकुलवासिनो यदुक्तं, तत्वाश्रमाविरोध्युत्तरेषामप्याश्रमिणां भवतीत्यर्थः । तद्वदिहापि ब्रह्मचर्यमच्यवने प्रायश्चित्तरसम्भवादह्मविद्यायोग्यताप्यस्ति ॥ ४२ ॥ बहिस्तभयधापि स्मृतेराचाराच्च ।३।४॥४३॥
तुशन्दो मतान्तरव्यावृत्त्यर्थः; उपपातकत्वे महापातकत्वेऽप्येते बहिर्भूता एव ब्रह्मविद्याधिकारिभ्यः; ब्रह्मविद्यायामनधिकृता इत्यर्थः । कुतः स्मृतेः-पूर्वोक्तात् पतनस्मरणात् । यद्यपि कल्मपनिहरणाय कैश्चिवचनैः प्रायश्चित्ताधिकारो विद्यते,तथापि कर्माधिकारानुगुणशुद्धिहेतुपायश्चित्तं न सम्भवति, १ "प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा" इति स्मृतरित्यर्थः । आचाराच-शिष्टा हि नैष्ठिकादीन् भ्रष्टान् कृतप्रायश्चित्तानपि वर्जयन्ति, तेभ्यो ब्रह्मविद्यादिकं नोपदिशन्ति; अतस्तेषां नास्ति ब्रह्मविद्यायामधिकारः॥४३॥
इति श्रीशारीरकमीमांसाभाष्ये तद्भताधिकरणम् ॥ १० ॥
१. आमेय. १६ ५-२३॥--२. गात. १-प्र.३.अ, ४-स्॥-३. सद्भावात् .पा.-४॥
For Private And Personal Use Only