________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] __ तद्भूताधिकरणम् .
३८७ मधिकारोऽस्ति, नेति चिन्तायां-विधुरादिवदनाश्रीकान्तैर्दानादिभि. विद्यानुग्रहसम्भवादस्त्यधिकारः
--(सिद्धान्तः). इति प्राप्त उच्यते-तद्भूतस्य तु नातद्भावः-इति। तुशब्दः पक्षव्यावृत्यर्थः। तद्भूतस्य-नैष्ठिकाद्याश्रमनिष्ठस्य, नातद्भावः-अतथाभावः, अनाश्रमित्वेनावस्थानं न सम्भवतिः कुतः? तपाभावेभ्यो नियमात्-तद्रूपाणि-तेषां नैष्ठिकादीनां रूपाणि-वेषाः, धर्मा इत्यर्थः; तेषामभावाः-तद्पाभावाः, तेभ्यः शानियमात् । नैष्ठिकाद्याश्रमप्रविष्टान् स्वाश्रमधर्मनिवृत्तिभ्यो नियच्छन्ति हि शास्त्राणि १"ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्" इति, २“अरण्यमियात्ततो न पुनरेयात्" इति, ३"सन्न्यस्याग्निं न पुनरावर्तयेत्"इतिच । अतो विधु रादिवत् नैष्ठिकादीनामनाथमित्वेनावस्थानासम्भवान्न तानधिकरोति बअविद्या; जैमिनरपि-इत्यविगानं दर्शयन्नुक्तं स्वाभिमतं द्रढयति॥४०॥ __अथ स्यात्-नैष्ठिकादीनां ब्रह्मचर्यात्पच्युतानां प्रायश्चित्तादधिकारस्सम्भवतिः अस्ति च प्रायश्चित्तमधिकारलक्षणे निरूपितम् ४"अवकीर्णिपशुश्च तद्वत्" इति । अतः प्रच्युतब्रह्मचर्यस्य प्रायश्चित्तसम्भवास्कृतप्रायश्चित्तो ब्रह्मविद्यायामधिकरिष्यति-इति; तत्राहनचाधिकारिकमपि पतनानुमानात्तद
योगात् । ३।४।४१॥ अधिकारलक्षणोक्तमपि प्रायश्चित्तं नैष्ठिकादीनां तवष्टानां न सम्भवतिः कुतः पतनानुमानात्तदयोगात्-नैष्ठिकादीनां प्रच्युतानां पत
१. छा. २-२३-१ ॥२॥-३. यजुषि, काठके ॥
४ ॥
For Private And Personal Use Only