________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८१
पा. ४.]
विहितत्वाधिकरणम् वेदान्तदीपे-सर्वानानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ वाजिनां छन्दोगानां च प्राणविद्यायां "नह वा एवं विदि किञ्चनाननं भवति" इति सर्वान्नानुमतिस्सकीय॑ते । किं प्राणविदस्सर्वान्नानुमतिस्सर्वदा, उत प्राणात्ययापत्ताविति संशयः । अविशेषात्सर्वदेति पूर्वः पक्षः। अतिशयितशक्तब्रह्मविदोऽपि उच्छिष्टपरिग्रहणभक्षणयोः प्राणात्ययापत्तावेव दर्शनादल्पशक्तेः प्राणविदः किं पुनरिति प्राणात्ययापत्तावेवेति राद्धान्तः। सूत्रार्थस्तु-चशब्दोऽवधारणे ; प्राणविदस्सर्वानानुमतिः प्राणात्यय एव; कुतः१ तदर्शनात्-अतिशयितशक्तेब्रह्मविदः प्राणात्यय एव सर्वानानुमतिदर्शनात् ॥ २८ ॥
अबाधाच ॥ २ "आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः" इस्याहारशुद्धिविधेरबाधाच प्राणात्यय एव ॥ २९ ॥
__ अपि स्मयते ॥ ३“प्राणसंशयमापनो योऽनमत्ति यतस्ततः। लिप्यते न स पापेन पनपत्रमिवाम्भसा" इति प्राणसंशय एव सर्वानानुमतिः स्मर्यते च॥३०॥
शब्दश्चातोऽकामकारे ॥ यतस्सर्वानानुमतिः प्राणात्यये ; अतोऽका. मकारे शब्दश्च-कामकारस्य प्रतिषेधकशब्दश्वोपपद्यत इत्यर्थः ॥ अस्ति हि कठानां कामकारप्रतिषेधकश्शब्दः ४"तस्माद्राह्मणस्सुरां न पिबति पाप्मना ५नोत्सृजा" इति । पाप्मना संस्पृष्टो न भवानीति मत्वा सुरां न पिबतीत्यर्थः॥
इति वेदान्तदीपे सर्वान्नानुमत्यधिकरणम् ॥ ७ ॥
-...(श्रीशारीरकमीमांसाभाष्ये विहितत्वाधिकरणम् ॥ ८॥)...
विहितत्वाच्चाश्रमकर्मापि । ३।४॥३२॥
यज्ञादिकर्माङ्गिका ब्रह्मविद्येत्युक्तम् ; तानि च यज्ञादीनि कर्माण्यमुमुक्षुणा केवलाश्रमिणाऽप्यनुष्ठेयानि, उत नेति चिन्तायां, विद्याकानां सतां केवलाश्रमशेषत्वे नित्यानित्यसंयोगविरोधः प्रसज्यत इ
१. छा. ५-२-१ ॥ ... २. छा. ७-२६-२ ॥-३ ॥ ४ ॥-५. नोत्संसृजा इति. पा ||-६. केवलाश्रमिशेषत्वे. पा॥
For Private And Personal Use Only