________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
श्रीशारीरकमीमांसामान्ये [भ... ति यज्ञादीनां र केवलाश्रमधर्मत्वं न सम्भवति
___-(सिद्धान्तः )---- इति प्राप्त उच्यते-आश्रमकर्मापि-इति। आश्रमस्य कर्मापि भवति । केवलाश्रमिणापि अनुष्ठेयानीत्यर्थः । कुतः ? २"यावज्जीवमग्निहोलं जुहोति" इत्यादिना विहितत्वात्-जीवननिमित्ततया नित्यवद्विहि तत्वादित्यर्थः ॥३२॥
तथा विद्याङ्गतया च २"तमेतं वेदानुवचनेन" इत्यादिना विहितत्वाद्विद्याशेषतयाप्यनुष्ठेयानीत्याह
सहकारित्वेन च ।३।४।३३॥ विद्योत्पत्तिद्वारेण विद्यासहकारितयाऽप्यनुष्ठेयानि । अग्निहोत्रादी नामिव जीवनाधिकारस्वर्गाधिकारवत् विनियोगपृथक्त्वेनोभयार्थत्वं न विरुध्यत इत्यर्थः ॥ ३३ ॥
तद्वदेव कर्मान्तरत्वमपि नास्तीत्याहसर्वथापि त एवोभयलिङ्गात् ।३।४।३४॥
सर्वथा-विद्यार्थत्वे आश्रमार्थत्वेऽपि, त एव यज्ञादय इति प्रतिपत्तव्यम् ; न कर्मस्वरूपभेद इत्यर्थः । कुतः ? उभयलिङ्गात्-उभयत्र श्रुतौ यज्ञादिशब्दैः प्रत्यभिज्ञाप्य विनियोगात् , कर्मस्वरूपभेदे प्रमाणाभावाच ॥ ३४ ॥
अनभिभवं च दर्शयति ।३।४॥३५॥
३"धर्मेण पापमपनुदति" इत्यादिभिश्च तानेव यज्ञादिधर्माभिर्दिश्य तैर्विद्याया अनभिभवं-पापकर्मभिरुत्पत्तिमतिबन्धाभावं दर्शयति । अहरहरनुष्ठीयमानैर्हि यज्ञादिभिर्विशुद्धेऽन्तःकरणे प्रत्यहं प्रकृष्यमाणा
१. केवलाश्रमिधर्मस्वं. पा ॥ २॥-३. ते. ना. ५०-अनु ।
For Private And Personal Use Only