________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८० वेदान्तसारे
[.३. पयत्वात्माणविदोऽल्पशक्तेः सर्वानानुमतिरापद्विषयैव ॥ २९ ॥
अपि स्मर्यते ।३।४।३०॥ अपि च आपद्विषयमेव सर्वाचीनत्वं ब्रह्मविदामन्येषां च स्मर्यते -"प्राणसंशयमापनो योऽन्नमत्ति यतस्ततः। लिप्यते न स पापेन पअपनमिवाम्भसा" इति ॥ ३०॥
शब्दश्चातोऽकामकारे । ३।४।३१॥
यतो ब्रह्मविदामन्येषां च सर्वाचीनत्वमापद्विषयमेव ; अत एव सर्वेषामकामकारे शब्दः-कामकारस्य प्रतिषेधकः शब्दो वर्तते । अस्ति हि कठानां संहितायां कामकारस्य प्रतिषेधकः शब्दः २"तस्माद्राह्मणस्मुरां न पिबति पाप्मना ३नोत्सृजा इति" इति । पाप्मना संस्पृष्टो न भवानीति मत्वा ब्राह्मणः सुरां न पिबतीत्यर्थः ॥३१॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वान्नानुमत्यधिकरणम् ॥ ७ ॥
वेदान्तसारे--सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ प्राणविचानिष्ठस्य ४'नह वा एवंविदि किञ्चनाननं भवति" इति सर्वान्नानुमतिर्न सधंदा; अपितु प्राणात्ययापत्तावेव, अतिशयितशक्तेब्रह्मविदोऽप्युच्छिष्टभक्षणा दिः प्राणास्थयापत्तावेवेति दर्शनात् ॥ २८॥
अबाधाच ॥ ५"आहारशुद्धौ. सत्त्वशुद्धिः" इत्याहारशुद्धिविधेरबाधाच प्राणसंशय एव ॥ २९॥
अपि स्मयते॥ १"प्राणसंशयमापनो योऽनमत्ति यतस्ततः" इत्यादिना स्मर्यते च प्राणसंशय एवेति ॥ ३०॥
शब्दश्चातोऽकामकारे ॥ २"तस्माद्राह्मणस्सुरान पिबेत्" इति काम. कारनिवृत्तिशब्दश्चातएव ; यतः प्राणसंशय एव सर्वानानुमतिः॥३१॥
। इति वेदान्तसारे सर्वान्नानुमत्यधिकरणम् ॥ ७॥
१॥-२॥-३. नोत्संसजा इति. पा ॥–४. छा. ५-२.१॥-५. छा, ७-२६-२॥
For Private And Personal Use Only