________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
सर्वान्नानुमत्यधिकरणम् .
३७९
ष्ठस्य सर्वान्नानुमतिः सर्वदा, उत प्राणात्ययापत्ताविति विशये, विशेषानुपादानात्सर्वदा
(सिद्धान्तः
इति प्राप्त उच्यते- प्राणात्यये - इति । चशब्दोऽवधारणे; प्राणात्ययापत्तावेवेत्यर्थः । कुतः १ तद्दर्शनात् — दृश्यते धन्यत्र ब्रह्मविदामपि प्राणात्ययापत्तावेव सर्वान्नाभ्यनुज्ञा ; किं पुनः प्राणविदः । उषस्तिः किळ चाक्रायणो ब्रह्मविदग्रेसरो मटचीहतेषु कुरुषु दुर्भिक्षदूषितेष्विभ्यग्रामे वसन्ननशनेन प्राणसंशयमापन्नो ब्रह्मविद्यानिष्पत्तये प्राणानामनवसादमाकाङ्गमाण इभ्यं कुल्माषान् खादन्तं भिक्षमाणस्तेन च उच्छिष्टेभ्योऽन्ये न विद्यन्त इति प्रत्युक्तः पुनरपि १ एतेषां मे देहि" इत्युक्त्वा तेनचेभ्येनोच्छिष्टेभ्य आदाय दत्तान् कुल्माषान् प्रतिगृह्यानुपानप्रतिग्रहमि - भ्येनार्थितः १ “उच्छिष्टं वै मे पीतं स्यात्” इति वदंश्चाक्रायणः किमेते कुल्माषा अनुच्छिष्टा इति इभ्येन पर्यनुयुक्तः १" न वा अजीविष्यमिमानखादन्... कामो म उदपानम्" इति कुल्माषाखादने स्वस्य प्राणसंशयापत्तेस्तावन्मात्त्रखादनेन धृतप्राणस्य स्वस्योच्छिष्टोदकपानं कामकारितं निषिद्धं स्यादित्युक्त्वा स्वखादितशेषं जायायै दत्वा तया च रक्षितानपरेद्युर्याजनेनार्जिजीषया जिगमिषुः पुनरपि प्राणसंशयमापन्नस्तानेवेभ्योच्छिष्टान् स्वोच्छिष्टभूतान् पर्युषितांश्व खाद । अतो ब्रह्मविदामपि प्राणसंशय एव सर्वान्नानुमतिदर्शनादत्वाविशेषेण कीर्तितमपि प्राणविद - स्सर्वान्नीनत्वं प्राणात्ययापत्तावेवेति निश्चीयते ॥ २८ ॥
अबाधाच्च । ३ । ४ । २९ ॥
२" आहारशुद्ध सत्वशुद्धिः सवशुद्धौ ध्रुवा स्मृतिः" इति ब्रह्मविद्योत्पत्तावाहारशुद्धिविधानाबाधादपि ब्रह्मविदां सर्वान्नीनत्वमापद्विषयमवगम्यते । एवं ब्रह्मविदामतिशयितशक्तीनामपि सर्वाभीनत्वस्यापद्वि
१. छा. १-०-३, ४ ॥ -२. छा. ७-२६-२ ॥
For Private And Personal Use Only