SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ श्रीशारीरकमीमांसामाग्ये [भ. ३. इत्यादिना शमदमादिविधेस्तद्युक्तस्स्यात्, विद्यानिष्पत्तये शमदमादीनामवश्यानुष्ठेयत्वात् । शान्त्युपरतिप्रभृतिभिर्विना विद्यानिष्पत्त्यनुपपत्तेः ॥ २७ ॥ इति वेदान्तसारे शमदमाद्यधिकरणम् ॥ ६ ॥ वेदान्तदीपे--शमदमाधुपेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेपामप्यवश्यानुष्ठेयत्वात् ॥ किं विद्यानिवृत्तये गृहस्थैश्शमदमादय उपादेयाः, उत नेति संशयः । गृहस्थानामान्तरबााकरणव्यापाररूपकाङ्गकत्वाद्विद्यायाः, तद्विपरीतरूपशमदमाधुपादानासामर्थ्यादूर्ध्वरेतस्सु कर्मरहितेषु शमादिविनियोगो भविष्यति, यथा यज्ञादिविनियोगः कर्मवत्सु गृहस्थेषु । तस्मादनुपादेयाश्शमादय इति पूर्वः पक्षः । राद्धान्तस्तु-१'तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्येत्" इति सामान्येन विद्यातया विनियोगाद्हस्थैरप्युपादेयाः । न च कर्मवतां तेषां शमाद्युपादानासामर्थ्यम्, भिन्नविषयत्वाच्छमादेः । विहितेषु हि कर्मसु करणव्यापारः; अविहितेषु प्रयोजनशून्येषु च शमदमादयः । अतश्शमादिविनियोगो यज्ञादिविनियोगवन्न सङ्कोचमर्हति इति । सूत्रार्थस्तु-यद्यपि गृहस्थो यज्ञादिकर्मसु विनियुक्तः, तथापितु शमदमाद्युपेतस्स्यात् ; कुतः? १"शान्तो दान्तः” इत्यादिना तद्विधेः तदङ्गतया-विद्याङ्गतया विद्यानिष्पत्तये तेषामवश्यानुष्ठेयत्वाञ्च । एकाप्रतानिष्पाद्यत्वाच्छमदमादिभिरेव विद्यानिष्पत्तिरित्यर्थः । यज्ञादिकर्माण्यपि पापनिबर्हणद्वारेणैकाग्रतामापादयन्तीत्यभिप्रायः ॥२७॥ इति वेदान्तदीपे शमदमायधिकरणम् ॥ ६॥ n(श्रीशारीरकमीमांसाभाष्ये सर्वान्नानुमत्यधिकरणम् ॥)... सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात्। ३।४।२८॥ वाजिनां छन्दोगानां च प्राणविद्यायां २"न ह वा अस्याननं जग्धं भवति नाननं परिगृहीतं भवति" ३"नह वा एवंविदि किश्चनाननं भवति" इति प्राणविदः सर्वानानुमतिः सङ्कीर्त्यते किमियं प्राणविद्यानि १. स. ६-४-२३ ॥–१, बु. ८-१-१४ ॥–३. छा. ५-२-१ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy