________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
...(श्रीशारीरकमीमांसाभाष्ये शमदमाद्यधिकरणम् ॥६॥)-m
शमदमाद्युपेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामप्यवश्यानुष्ठेयत्वात् । ३।४ २७॥
गृहस्थस्य शमदमादीन्यप्यनुष्ठेयानि, उत नेति चिन्तायाम्-आन्तरबाझकरणव्यापाररूपत्वात्कर्मानुष्ठानस्य, शमदमादीनां तद्विपरीतरूपत्वाचाननुष्ठेयानि
(सिद्धान्तः)...इति प्राप्त उच्यते यद्यपि गृहस्था करणव्यापाररूपकर्मसु प्रसः, तथाऽपि स विद्वान् शमदमायुपेतस्स्यात्ः कुतः तदातया तद्विधेःविद्याङ्गतया तेषां विधेः १ "तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवाऽत्मानं पश्येत्" इति । विद्योत्पत्तेश्चित्तसमाधानरूपत्वेन दृष्टपरिकरत्वाच्छमादीनां, विद्यानिवृत्तये तेषां शमा. दीनामप्यवश्यानुष्ठेयत्वाच्च तान्यप्यनुष्ठेयानि। नच करणव्यापारतद्विप. र्ययरूपत्वेन कर्मणां शमदमादीनां च परस्परविरोधः, भिन्नविषयत्वात्विहितेषु करणव्यापारः, अविहितेषु प्रयोजनशून्येषु च तदुपशम इति । नच करणव्यापाररूपकर्मसु वर्तमानस्य वासनावशाच्छमादीनामुपादेयत्वासम्भवः, विहितानां कर्मणां परमपुरुषाराधनतया तत्मसादद्वारेण निखिलविपरीतवासनोच्छेदहेतुत्वात् । अतो गृहस्थस्य शमदमादयोऽप्यनष्ठेयाः॥ २७॥
इति श्रीशारीरकमीमांसाभाष्ये शमदमाद्यधिकरणम् ॥६॥ वेदान्तसारे-शमदमायुपेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेपामप्यवश्यानुष्ठेयत्वात् ॥ गृहस्थो विहितकर्मव्यापृतोऽपि "शान्तो दान्तः"
१. 1. ६-४-२३॥
For Private And Personal Use Only