________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसामाग्ये विद्या । अश्ववत्-यथा गमनसाधनभूतोऽन्यः खपरिकरबन्धपरिक
र्मापेक्षा एवं मोक्षसाधनभूताऽपि विद्या नित्यनैमित्तिककर्मपरिकरापेक्षा। तदिदमाह खयमेव भगवान् १"यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्" २"यतः प्रवृत्तिर्भूताना येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिदि विन्दति मानवः" इति ॥ २६ ॥
इति भौशारीरकमीमांसाभाग्ये सर्वापेक्षाधिकरणम् ॥ ५ ॥ वेदान्तसारे-सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ कर्मवत्सु गृहखेवग्निहोत्रादिसर्वकमीपेक्षा विद्या "ब्राह्मणा विविदिषन्ति यशेन दानेन तपसाऽनाशकेन" इत्यादिश्रुतेः।यथाचाश्वो गमनसाधनभूतोऽपि वपरिकरवाधापेक्षो गमने । ऊर्ध्वरेतस्सु च स्वाश्रमकर्मापेक्षा ॥ २६ ॥
इति वेदान्तसारे सर्वापेक्षाधिकरणम् ॥ ५ ॥ वेदान्तदीपे-सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ कर्मवत्सु गृहले. थुकिं यज्ञादिकर्मापेक्षा विद्या, उत तत्रापि केवलैवेति संशयः। ऊर्ध्वरेतस्सु यहाधनपेवामृतत्वं साधयति चेत्-कर्मनिरपेक्षाया विद्याया एव साधनत्व मभ्युपगमनीयम् । तथा सति गृहस्पेष्वपि तनिरपेक्षेव साधयितुं समर्थेति पू. ः पक्षः। नहि स्वर्गादिसाधनभूतमग्निहोत्रादिकर्म पुरुषभेदेन नानाविधानकं रष्टम् । ३"विविदिषन्ति' इति शम्दोऽपि वेदनेच्छायां कर्माणि विनियुके, न विद्यायाम् । राधान्तस्तु–कर्मवत्सु गृहस्थेषु यज्ञादिसर्वकर्मापेक्षा विद्या कुत? यज्ञादिश्रुतेः - ३"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति योन दानेन" इतिहि यज्ञादयो विद्याङ्गत्वेन विनियुज्यन्ते । अतो गृहस्थेषु कर्मापेक्षा विद्या । इच्छाया इण्यमाणप्रधानत्वात्३ "विविदिषन्ति" इतीप्यमाणं ज्ञानमेवेत्यवगम्य. ते । यथा गमनसाधनभूतोऽश्वः स्वपरिकरबन्धरूपपरिकर्मापेक्षा एवं मोक्षसाधनभूता विद्यापि नित्यनैमित्तिकपरिकर्मापेक्षा । ऊर्ध्वरेतस्सु च स्वाश्रमविहितं कमैव परिकर्म भवतीति तेवपि विद्यासम्बन्धश्शास्त्रावगम्यते । शा. सैकसमधिगम्ये हि यथाशास्त्रमभ्युपगमनीयम् । सूत्रमपि व्याख्यातम् ॥ २६ ॥
इति वेदान्तदीपे सर्वापेक्षाधिकरणम् ॥ ५ ॥
१. गी. १८.५॥-२, गी.१८.४६ ॥-३. १. ६.४.२२ ॥
For Private And Personal Use Only