________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०
श्रीशारीरकमीमांसाभाष्ये १"ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" "एतमेव प्रवाजिनो लोकमिच्छन्तः प्रबजन्ति” इत्यादौ । ३"यावज्जीवमग्निहोत्रम्" इत्यादिका तु श्रुतिरविरक्तविषया ॥१७॥
___ परामर्श जैमिनिरचोदनाचापवदति हि ॥ "प्रयो धर्मस्कन्धाः" इत्यादिषु तेषामाश्रमाणामचोदनात्-अविधानात् उपासनास्तुत्यर्थ परामर्शम् अनुवादं जैमिनिराचार्यों मन्यते । अपि च अपवदति हि श्रुतिराभमान्तरं ५“वीरहा वा एष देवानां योऽग्निमुद्रासयते"इत्यादिका । अतस्ते न सन्त्येव ॥
. अनुष्ठेयं बादरायणस्साम्यश्रुतेः॥ गृहस्थाश्रमबदाश्रमान्तरमप्यनु. ठेयं भगवान् बादरायणो मन्यते; कुतः । तस्यापि तत्साम्यश्रुतेः-४"प्रयो धर्मस्कन्धाः" इत्येवमादौ हि सर्वेषामाश्रमाणामेकरूपं सकीर्तनम् ॥ १९ ॥ ..
विधिवों धारणवत् ।। वाशब्दोऽवधारणे; सर्वेषामाश्रमाणां विधिरेवायम् । धारणवत्-यथा ६"अधस्तात्समिधं धारयन्ननुद्रवेत्""उपरि हि देवेभ्यो धारयति" इत्यनुवादसरूपेऽप्युपरिधारणस्याप्राप्तत्वेन विधिराधीयते; एवमिहाभ्रमाणामपि। अतः ऊर्ध्वरेतस्स्वपि विद्यादर्शनाद्विद्यातः पुरुषार्थ इति ॥
इति वेदान्तदीपे पुरुषार्थाधिकरणम् ॥ १॥
--(श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम् ॥ २॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥३॥४॥२१
इदमिदानी चिन्त्यते ७" स एष रसानां रसतमः परमः परार्योऽष्टमो यदुद्गीथः" इति एवंजातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणि, आहोखिदुद्गीथादिषु रसतमादिदृष्टिविधानार्थानीति । अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थत्वेन ऋतुष्पादानानियम उक्तः। किं युक्तम् ? स्तुतिमानपराणीति । कुतः१ उद्गीथाधुपादानात् । क्रत्वङ्गभूतानि ह्यद्गीथादीन्युपादाय तेषां र
१. छा. ५-१०-१ ॥-२. वृ. ६-४-२२ ॥-३ ॥-४. छा. २-२३-१ ॥५. गजु. १-कां. ५-प्र. २-अनु ।-६॥ ७.छा. १.१.३॥
For Private And Personal Use Only