________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा..]
पुरुषार्थाधिकरणम् . विभागसतवत ॥"तविणकर्मणी समन्चारभेते" इत्यत्र विद्या च खस्मै फलाप कर्मच खस्मै फलायान्धारभत इति विभागो द्रष्टव्यः,यतो विद्याकर्मणोभित्रफलत्वमुकम् शतवत्-यथा क्षेत्ररजविक्रयिणं शतयमन्तीत्युक्ते, क्षेत्रार्थे शतम्, रतार्थ शतमिति विभागोऽवगम्यते ; तद्वत् ॥११॥
अध्ययनमालवतः ॥"वेदमधीत्य"इत्यन्वयनमात्रवत एव कर्मविधानात् मनेन विद्याया नकर्माङ्गत्वमवगतम् मध्ययनविधिर्वाधानवनियमबदक्षरराशिग्रहणमात्रे पर्यवस्यति ; गृहीतस्य स्वाध्यायस्य फलवदर्थावबोधित्वदर्शनात्तनिर्णयफलमीमांसाश्रवणे मधीलवेदः पुरुषस्वयमेव प्रवर्तते । मर्यावबोधपर्यन्तत्वेऽप्यर्थशानादान्तरभूता स्मृतिप्रत्ययावृत्तिरूपा "विद्यात्" "इ. पालीत" इति शास्त्रविहिता विद्या न कर्माङ्गम् ॥ १२॥
नाविशेषात् ॥'कुर्वनेवेह कर्माणि" इति ब्रह्मविदामायुषः कर्मणि नियमो श्यत इत्येतन संभवति, अविशेषात्-विदुष एवेति विशेषाभावात्कि. मित्यविदुषो न स्यात्, विदुषस्त्वाप्रयाणादुपासनानुवृत्तिदर्शनादर्थखभावादि. दुष एषेत्वभिप्रायः ॥ १३॥
स्तुतयेऽनुमतिवो ॥ वाशब्दोऽवधारणे । "ईशावास्यमिदं सर्वम्" इति विद्याप्रकरणाद्विद्यास्तुतये कर्मानुमतिरेव । विद्यामाहात्म्यात्सर्वदा कर्माणि कुर्वमपि तैर्न लिप्यत इति हि स्तुता भवति विद्या । वाक्यशेषे च "म कर्म लिप्यते नरे" इति श्रूयते ॥१४॥
कामकारेण चैके। एके शाखिनः कामकारेण च विद्यानिष्ठस्य गाईस्थ्यस्यागमधीयते । "किं प्रजया करिग्यामो येषां नोऽयमात्माऽयं लोकः" इति गार्हस्थ्यकर्मत्यागं मुषद्वाक्यं विद्या प्रधानमिति दर्शयति ॥१५॥
उपमर्द च ।। विद्यया सर्वकर्मोपमर्द चाधीयते ५ "क्षीयन्ते चास्य कमौणि तस्मिन्रष्टे परावरे" इति । तद्विद्यायाः कर्माङ्गत्वे न सङ्गच्छते ॥ १६॥
ऊध्वरेतस्सु च शब्दे हि ॥ ऊर्ध्वरेतस्खाश्रमेषु ब्रह्मविद्यादर्शनात् तेषु चाग्निहोत्रादिक भावान विद्या कर्माकम् । ते चात्राश्रमास्सन्स्येव ; यतो वैदिके शब्द तेऽपि दृश्यन्ते "प्रयो धर्मस्कन्धा यज्ञोऽज्ययनं दानम्" इति
१. 1. ६-४-२-॥-२, छा. ८-१५-१ ॥-1. ईशावास्य, २, १॥-४. . ६. ४-२२ ॥-५. मु. २-२-८ ॥-६, छा. २०१३-१॥
For Private And Personal Use Only