SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६८ वेदान्तदीपे [म. ३. तद्वतो विधानात् । विद्यावतः कर्मविधानाश्च विद्या कर्माङ्गम् । १"आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे" इत्यादिनाऽध्ययनवतः कर्माणि विदधदर्थावबोधपर्यन्तत्वाद्ध्ययनस्य विद्यावत एव कर्माणि विदधातीत्यवगम्यते ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir नियमात् ॥ २" कुर्वनेवेह कर्माणि जिजीविषेच्छतं समाः" इत्यात्मविदामायुषः कर्मसु नियमदर्शनाश्च कर्मण एव पुरुषार्थः; न विद्यात इत्यवगम्यते । अतश्च विद्या कर्माङ्गम् ॥ ७ ॥ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ तुशब्दात्पक्षो व्यावृत्तः । बादरायणस्यैवं – विद्यातः फलमिति मतम् ; कुतः ? अधिकोपदेशात्कर्मसु कर्तुः प्रत्यगात्मनोऽधिकस्य अर्थान्तरभूतस्य वेद्यस्य वेदनभूतविद्यायाः फलसाधनत्वोपदेशात् । तद्दर्शनात् — दृश्यते हि वेदान्तवाक्येऽधिकविषयत्वं विद्यायाः । एवमेव हि ३" तदैक्षत बहु स्यां प्रजायेयेति" ४" सोऽकामयत बहु स्यां प्रजायेय" इत्यादिषु बहुभवनसङ्कल्पपूर्व कसृष्ट्यादेः कर्तुस्सर्वेश्वरस्य करणाधिपाधिपस्यानवधि कातिशयज्ञानानन्दैकस्वरूपस्य निखिलहेयप्रत्यनीकस्य वेद्यस्य विद्या ब्रह्मप्राप्तिफलाय विधीयते ॥ ८ ॥ तुल्यं तु दर्शनम् || विद्यायाः प्रधानत्वेऽपि ब्रह्मविदामाचारदर्शनं तुल्यं - कर्मणामनाचारदर्शनमप्यस्तीत्यर्थः, ५' 'ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यस्यामहे" इत्यादौ । कर्मानुष्ठानदर्शनं तु फलाभिसन्धिरहितस्य कर्मणो विद्याङ्गत्वात्; त्यागस्तु फलाभिसन्धियुक्तस्य विद्याविरोधित्वादित्यभिप्रायः ॥ ९ ॥ असार्वत्रिकी || ६ "यदेव विद्यया करोति ” इति श्रुतिः सर्वविद्यायाः कर्माङ्गत्वं विदधातीत्येतदसङ्गतम् ; अत्र विद्याशब्दाभिहिता तु न सार्वत्रिकी, अपितुद्गीथविद्या । यत्करोति, तद्विद्ययेति नैवं पदान्वयः; अपितु यदेव विद्यया करोति, तदेव वीर्यवत्तरमिति । विद्यया क्रियमाणस्यान्यतोऽवगतस्य वीर्यवत्तरत्वं प्रति साधनभावोऽवगम्यते, यदेवेति प्रसिद्धवनिर्देशात् । अन्वतोऽवगतिर्हि " उद्गीथमुपासीत" इति सन्निहितोद्गीथविद्यायाः ॥ १० ॥ १. छा. ८-१५-१ ॥―२. ईशावास्य २॥ – ३. छा. ६-२-३ ॥ ४. ते. आन ६- अनु २।। ५ ।। ६. छा. १-१-१० ॥७. छा. १-२-१ ॥ - For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy