________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा...] पुरुषार्थाधिकरणम् .
३६७ भूयासि लिङ्गानि च दृश्यन्ते सर्ववेदान्तेषु । राद्धान्तस्तु-कर्मसु कर्तुः प्रत्यगा. त्मनोऽर्थान्तरभूतस्य स्वसङ्कल्पकृतजगदुदयविभवलयलीलस्य निखिलहेयप्रत्यनीककल्याणकतानानन्तज्ञानानन्दैकस्वरूपस्य सर्वेश्वरस्य सत्यसङ्कल्पस्य करणाधिपरूपप्रत्यगात्माधिपस्य वेद्यस्य वेदनरूपाया विद्यायाः १"ब्रह्मविदाप्नोति परम्" इत्यादिषु ब्रह्मप्राप्तिरूपफलोपदेशात् विद्यात एव फलम् । २"यदेव विघया करोति" इति श्रुतिः प्रसिद्धवनिर्देशात्, प्रसिद्धिश्च प्रकृतोद्गीथोपासनस्यैवेति. प्रस्तुतोद्गीथोपासनविशेषनिष्ठा । ३ 'तत्त्वमसि' इति सामानाधिकरण्यं च तच्छन्दनिर्दिष्टस्य स्वसङ्कल्पकृतजगजन्मस्थितिध्वंसादिकस्य परस्य ब्रह्मणो न जीवस्वरूपत्वपरम्; अपितु जगत्कारणस्य ब्रह्मणो जीवशरीरकतया जीवस्यात्मत्वपरमिति ४"अधिकं तु भेदनिर्देशात्' इत्यादिषूक्तम्। ५“य आ. त्मनि तिष्ठन्...यस्यात्मा शरीरम्” इति च प्रत्यगात्मन आत्मत्वं परस्य ब्रह्मणः श्रुत्यन्तरे व्यक्तम् । सूत्रार्थस्तु-पुरुषार्थोऽत:--विद्यातः; कुतः१ १"ब्रह्मविदाप्नोति परम्" इत्यादिशब्दात् ॥१॥
शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः॥३“तत्त्वमसि'इत्यादिसामानाधिकरण्येन ब्रह्मणः कर्मसु कर्तृवरूपत्वावगमाद्विद्यायाः कर्तृसंस्कारद्वारेण कर्मशेषत्वात्तत्र पुरुषार्थवादोऽर्थवादमात्रम् ; यथा अन्येषु द्रव्यसंस्कारादिग्विति जैमिनिराचार्यों मन्यते ॥ २॥
आचारदर्शनात् ॥ इतश्च विद्या कर्माङ्गम् ब्रह्मविदामाचारो हि कमप्रधानो दृश्यते । यथाऽश्वपतिः केकयो ब्रह्मविदग्रेसरः ६"यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि" इत्याह । ७'कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति च स्मर्यते ॥ ३॥
लिङ्गमिदम् प्राप्तिरुच्यतामित्यत्राह___ तच्छ्रुतेः ॥ २ “यदेव विद्यया करोति"इत्यादिकायाश्श्रुतेर्विद्यायाः कमङ्गित्वमवगम्यते । नच दुर्बलेन प्रकरणेन श्रुतिर्विद्याविशेषोद्गीथविषयोपासने व्यवस्थाप्यते ॥४॥
समन्वारम्भणात् ॥ ८ "तं विद्याकर्मणी समन्वारभेते' इति विद्याकर्मणोरेकस्मिन्पुरुषे साहित्यं च विद्यायाः कर्माङ्गत्वे हि भवति ॥५॥
१. ते. आन. १-अनु१ ॥-२. छा. १-१-१० ।-३. छा.६-८-७॥–४.शा. री. २.१-२२ ॥-५. वृ. ५-७-२२॥ मा-पा ||-६.छा.५-११-५ ।। ७ गी. ३.२०॥
For Private And Personal Use Only