________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
घेदान्तदीपे
[भ. ३. कामकारेण चैके॥"किं प्रजया करिष्यामः" इत्यादिना कामकारेण गार्हस्थ्यस्यागमधीयत एके; अतश्च विद्यैव प्रधानभूता ॥ १५ ॥
उपमर्द च ॥ विद्यया सर्वकर्मोपमर्दाधीयते २ "क्षीयन्ते चास्य कमाणि तस्मिन्दृष्टे परावरे" इत्यादिना ॥१६॥
ऊर्ध्वरेतस्सु च शब्दे हि ॥ ऊर्ध्वरेतस्स्वाश्रमेषु विद्यादर्शनात् तेषु चाग्निहोत्राद्यभावान विद्या कर्माङ्गम् । ते चाश्रमास्सन्स्येव ; ३"त्रयो धर्मस्कन्धाः" इति वैदिके शब्दे हि दृश्यते ॥१७॥
परामर्श जैमिनिरचोदनाचापवदतिहि ॥ ३"त्रयो धर्मस्कन्धाः" इत्यत्र चोदनाभावादुपासनस्तुत्यर्थमनुवादमेव जैमिनिमैने । ४'वीरहा वा एष देवानां योऽग्निमुद्वासयते" इस्यपवदति चाश्रमान्तरम् ॥ १८ ॥
अनुष्ठेयं बादरायणस्साम्यश्रुतेः ॥ गृहस्थाश्रमवदाश्रमान्तरमप्यनु. ष्ठेयमिति बादरायणमतम् , ३"त्रयो धर्मस्कन्धाः" इति सर्वाश्रमसाम्यश्रुते॥
विधिर्वा धारणवत् ॥ ५"उपरि हि देवेभ्यो धारयति" इत्यप्राप्तत्वेन यथा विधिः ; तद्वत् ॥ २० ॥
इति वेदान्तसारे पुरुषार्थाधिकरणम् ॥ १ ॥
वेदान्तदीपे-पुरुषार्थोऽतश्शब्दादिति बादरायणः॥ किं विद्यातः पुरुषार्थः, उत कर्मण इति संशयः । कर्मण इति पूर्वः पक्षः, कर्माङ्गत्वाद्विद्या याः । कर्मसु कर्तृभूतप्रत्यगात्मनो याथात्म्यप्रतिपादनपराणि वेदान्तवाक्यानि। विद्यायाः काङ्गत्वं च ६'यदेव विद्यया करोति...तदेव वीर्यवत्तरम्” इति श्रुस्यैवावगम्यते । नच प्रकृतोद्गीथोपासनविषयत्वमस्य वक्तुं शक्यते, ६ “यदेव विद्यया करोति" इति श्रुत्यैव सर्वकर्मसु विद्याया विनियुक्तत्वात् । श्रुतिश्च प्रकरणादलीयसी। विद्यायाः काङ्गत्वं कथमित्यपेक्षायां ७"तत्त्वमसि'"अयमात्मा ब्रह्म" इति सामानाधिकरण्येन कर्माङ्गभूतकर्तृयाथात्म्यानुसन्धानद्वारेण विद्यायाः काङ्गत्वमित्यवगम्यते । अतः कर्तृसंस्काररूपत्वाब्रह्मविद्यायाः कर्मण एव पुरुषार्थः । तत्रतत्र फलश्रुतिरर्थवादस्स्यात् । विद्यायाः कर्माङ्गत्वे
१. वृ. ६.४-२२ ॥-२. मु. २.२-८ ॥ ३. छा. २-२३-१ ॥-४. यजु. १. का. ५-प्र. २-मनु।।-५॥-६. छा. १.१.१०॥---७.छा.६-८-७ -८. पू.६.४-५।।
For Private And Personal Use Only