________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा...]
पुरुषार्थाधिकरणम्. नियमात् ॥ १"कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" इस्यात्मविदो जीवस्य कर्मसु विनियोगाच ॥ ७॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ न विद्या कर्माङ्गम्। अपितु विद्यातः पुरुषार्थ इत्येवमेव भगवतो बादरायणस्य मतम् , कर्तुः प्रत्यगात्मनोऽर्थान्तरभूतस्यैव वेद्यतयोपदेशात्। तत्कथम् १२ "बहु स्यां प्रजायेयेति" ३"स कारणं करणाधिपाधिपः” इत्यादिवाक्येषु वेद्यस्याधिकत्वदर्शनात् ॥८॥
तुल्यं तु दर्शनम् ॥ विद्यायाः प्राधान्येऽपि तुल्यमाचारदर्शनम् ; ४'ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे" इत्यादौ ब्रह्मविदां कर्मत्यागो हि दृश्यते । अनुष्ठानन्तु फलाभिसन्धिरहितस्य विद्याङ्गत्वेन; त्यागस्तु फलाभिसन्धियुक्तस्येति न विरोधः॥९॥
असार्वत्रिकी ।। ५"यदेव विद्यया करोति" इति न सार्वत्रिकी विद्योच्यते ५“यदेव विद्यया' इति प्रसिद्धवनिर्देशात् ; प्रसिद्धिश्चोद्गीथविद्यायाः, ५"यदेव विद्यया करोति...तदेव वीर्यवत्तरं भवति" इति प्रकृतोद्गीथविद्यायुक्तस्य कर्मणो हि वीर्यवत्तरत्वसाधनभावो विधीयते ॥१०॥
विभागश्शतवत् ॥६"तं विद्याकर्मणी समन्वारभेते" इति विद्याकर्मणोभिन्नफलत्वेन स्वस्मै फलावान्वेतीति विभागः; यथा क्षेत्ररत्नविक्रयिणे शतइयमन्वेतीस्यत्र क्षेत्रार्थ शतम् , रत्नाथै शतमिति ॥११॥
___ अध्ययनमात्रवतः॥ ७वेदमधीत्य" इस्पध्ययनमात्रवतः कर्मविधानात् न विद्या कर्माङ्गम् ; अध्ययनविधिर्हि अक्षरराशिग्रहणमात्रे पर्यवस्यतीत्युक्तम् , अर्थावबोधपर्यन्तत्वेऽप्यर्थज्ञानादर्थान्तरभूता "विद्यात्. 'उपासीत" इति विहिता विद्या प्रत्ययावृत्तिरूपा ॥१२॥
नाविशेषात् ॥ १ "कुर्वन्नेवेह कर्माणि" इत्यत्र स्वतन्त्रे कर्मणि विद्वदायुषो विनियोग इति विशेषहेत्वभावात् , १"ईशावास्यमिदं सर्वम्" इति प्रकरणाच विद्याभूतमेवच तत्कर्मेति जायते, अतो म विद्या कर्माङ्गम् ॥१३॥
स्तुतयेऽनुमतिवो । विद्यास्तुतये कर्मानुमतिर्वा । विद्यामाहात्म्यात् सर्वदा कर्म कुर्वनपि तैर्न लिप्यते इति हि विद्या स्तुता स्यात् । १" न कर्म लिप्यते नरे" इति च वाक्यशेषः ॥१४॥
१. ईशावास्य. २ ॥-२. छा. ६-२-३ ॥-३. श्वे. ६-९॥-४. ।।-५. छा. १.१.१०॥-६.६.६-४-२ ॥-७. छा. ८-१५-१॥
For Private And Personal Use Only