SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६४ वेदान्तसारे [म. ३. स्वाद्विधिरेवाश्रयणीयः । " ब्रह्मचर्ये समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रव्रजेत् यदिवेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा यदहरेव विरजेत् तदहरेव मत्रजेत्" इति जाबालानामाश्रमविधिमसन्तमिव कृत्वैतेष्वन्यपरेष्वपि वाक्येष्वाश्रमप्राप्तिरवश्याश्रयणीयेत्युपपादितम् । एवमाश्रमान्तरविधानादृणश्रुतिर्यावज्जीवश्रुतिरपवादश्रुतिश्चाविरक्तविषया एवेति वेदितव्याः । अन्याश्च ब्रह्मविदः कर्मणामाप्रयाणादवश्यकर्तव्यताविधायिन्यः श्रुतयः स्मृतयश्च स्वस्वाश्रमधर्मविषयाः । अत ऊर्ध्वरेतस्सु च ब्रह्मविद्याविधानाद्विद्यातः पुरुषार्थ इति सिद्धम् ॥ २० ॥ इति श्रीशारीरकमीमांसाभाष्ये पुरुषार्थाधिकरणम् ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir वेदान्तसारे - पुरुषार्थोऽतश्शब्दादिति बादरायणः । विद्यातः पुरुपार्थः इति भगवान् बादरायणो मेने; २' 'ब्रह्मविदाप्नोति परम् " २ “यो वेद... सोऽश्नुते सर्वान् कामान् सह" इत्यादिशब्दात् ॥ १ ॥ शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ ३" तत्त्वमसि ” इत्यादिसामानाधिकरण्येन कर्मसु कर्तुरेव ब्रह्मत्वावगमात् तद्वेदनस्य तत्संस्कारतया कर्मशेषत्वात् द्रव्यादिष्विव फलश्रुतिरर्थवादः ॥ २ ॥ आचारदर्शनात् ।। ४" यक्ष्यमाणो ह वै भगवन्तोऽहम् " इत्यादी प्र ह्मविदः कर्मप्रधानाचारदर्शनात् विद्या कर्माङ्गम् ॥ ३ ॥ तच्छ्रुतेः ॥ ५" यदेव विद्यया करोति" इति श्रुत्यैव विद्यायाः कर्मसु विनियोगात् । यत्करोति, तद्विद्यया इति हि श्रुतिः । यद्विद्यया साधनभूतया कर्म करोति, तत्कर्म वीर्यवत्तरमिति वा ॥ ४ ॥ समम्वारम्भणात् || ६" तं विद्याकर्मणी समन्वारभेते" इति विद्याकर्मणोरेकस्मिन्पुरुषे साहित्यदर्शनाच्च विद्या कर्माङ्गम् ॥ ५ ॥ तद्वतो विधानात् ॥ ७" आचार्यकुलाद्वेदमधीत्य... अभिसमावृत्य कु टुम्बे " इत्यादी अर्थज्ञानपर्यन्ताध्ययनवतः कर्मविधानाञ्च । अध्ययनं ह्यर्थज्ञानपर्यन्तम् ॥ ६ ॥ १ जाबालोप. ४. ख ॥ २. तै. आन. १ - अनु ॥ - ३. छा. ६-८-७॥ ४. छा ५-११-५॥ - ५. छा. १-१-१० ॥ - ६, ब्रु. ६-४-२ ॥ --७. छा. ८-१५-१ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy