________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६३
पा. ४.]
पुरुषार्थाधिकरणम् . १"यज्ञोऽध्ययनं दानम्" इति गृहस्थाश्रम उच्यते । अध्ययनशब्दो वेदाभ्यासपरः। तपश्शब्देन वैखानसपारिव्राज्ययोर्ग्रहणम् , उभयोः तपःधानत्वात् । तपश्शब्दो हि कायक्लेशे रूढः स च द्वयोरपि समानः।ब्रह्मचारिधर्म एव ब्रह्मचर्यशब्देनाभिधीयते । १"ब्रह्मसंस्थोऽमृतत्वमेति" इति परत्र श्रूयमाणो ब्रह्मसंस्थशब्दो यौगिकः सर्वाश्रमसाधारणः, सर्वेषामाश्रमिणां ब्रह्मसंस्थासम्भवात् । ब्रह्मणि संस्था-संस्थितिः ब्रह्मसंस्थत्वम्। तच सर्वेषां सम्भवत्येव । ब्रह्मनिष्ठाविकलाः केवलाश्रमिणः पुण्यलोकभाजः तेष्वेव ब्रह्मनिष्ठोऽमृतत्वभाग्भवति । तदेतद्विस्पष्टमुक्तं भगवता पराशरेण २"प्राजापत्यं ब्राह्मणानाम्" इत्यारभ्य ३"ब्राह्मं संन्यासिनां स्मृतम्" इत्यन्तेन वर्णानामाश्रमाणां च केवलानां ब्रह्मलोकप्राप्त्यन्तं फलमभिधाय ४" एकान्तिनस्सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परमं स्थानं यदै पश्यन्ति सूरयः" इति तेष्वेव ब्रह्मनिष्ठानां ब्रह्ममाप्तिमभिदधता|अतो गृहस्थाश्रमतुल्याः ऊर्ध्वरेतस आश्रमा अपि दृश्यन्त इति तेऽप्यनुष्ठेयाः। "ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" इतिच अरण्ये इति तपःप्रधानाश्रमप्राप्त्यपेक्षत्वाद्देवयानविधानस्य तत्रापि तत्माप्तिरङ्गीकरणीया ॥ १९॥
परामर्शपक्षे विधानपक्षे च गृहस्थाश्रमतुल्यमेषामप्यनुष्ठेयत्वमित्युपपाद्य विधिरेवायमाश्रमाणां सर्वेषां, नानुवाद इत्युपपादयितुमाह
विधिर्वा धारणवत् ।३।४।२०॥
वाशब्दोऽवधारणार्थः । विधिरेवायमाश्रमाणाम् धारणवत्-यथा दिष्टाग्निहोते ६"अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति" इत्यत्रानुवादसरूपादपि वाक्यादुपरि धारणस्याप्राप्तत्वाद्विधिराश्रीयते; तदुक्तं शेषलक्षणे ७"विधिस्तु धारणेऽपूर्वत्वात्" इति ; तथाऽत्राप्यप्राप्त
१. छा. २-२३-१ ॥–२. वि-पु. १-६-३४ ॥-३. वि-पु. १-६-३७॥-४. वि-पु. १-६-३९ ॥ ५. छा. ५-१०-१॥-६॥-७. पू. मी. ३-४-१५ ॥
For Private And Personal Use Only