SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६२ श्रीशारीरकमीमांसामाध्ये [म. ३. प्रव्रजन्ति" इत्यादौ । यावजीवश्रुतिस्त्वविरक्तविषया ॥१७॥ परामर्श जैमिनिरचोदनाच्चापवदति हि।३।४।१८॥ __यदिदं "त्रयो धर्मस्कन्धाः" इत्यादौ वैदिके शब्दे ऊर्ध्वरेतस आश्रमा दृश्यन्ते ; अतस्ते सन्त्येवेति नैतदुपपद्यते; यतः १ "त्रयो धर्मस्कन्धाः"इत्यादिषु वाक्येषु तेषामाश्रमाणां परामर्शमात्र क्रियते-अनुवादमात्रमित्यर्थः। कुत एतत्? अचोदनात्-अविधानादित्यर्थः । न ह्यत्र विधिशब्दः श्रूयते ; १" त्रयो धर्मस्कन्धाः" इत्यादिना हि प्रकृतं प्रणवेन ब्रह्मोपासनं स्तूयते, १ "ब्रह्मसंस्थोऽमृतत्वमेति" इत्युपसंहारात् । अतोऽन्यार्थमनुवादमात्रमत्र क्रियते तेषामाश्रमाणाम् । २"ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" इति च देवयानविधिपरत्वातत्रापि नाश्रमान्तरविधिसम्भवः । अपि चापवदति हि श्रुतिराश्रमान्तरं ३“वीरहा वा एष देवानां योऽग्निमुद्रासयते" इत्यादिका। अत उर्ध्वरेतस आश्रमा न सन्तीति जैमिनिराचार्यो मन्यते ॥ १८ ॥ अनुष्ठेयं बादरायणस्साम्यश्रुते ।३।४।१९॥ गृहस्थाश्रमवदाश्रमान्तरमप्यनुष्ठेयं भगवान् बादरायणो मन्यते । कुतः? साम्यश्रुतेः-उपादेयतयाऽभिमतगृहस्थाश्रमसाम्यं हि तेषामप्याश्रमाणां श्रूयते । १"त्रयो धर्मस्कन्धाः" इत्यारभ्य ब्रह्मसंस्थस्तुत्यर्थतया सङ्कीर्तनं गृहस्थाश्रमस्यतरेषां च समानम् । अथ गृहस्थाश्रमस्यानुवादः प्राप्तौ सत्यामेव संभवतीति तस्य प्राप्तिरवश्याभ्युपेत्येति मतम् । तदितरेषामपि समानमन्यत्राभिनिवेशात् । नच गार्हस्थ्यधर्म एव १“यज्ञोऽध्ययनं दानं तपो ब्रह्मचर्यम्" इति सर्वैश्शब्दरभिधीयते, ब्रह्मचर्यतपसोहस्थस्यैव सम्भवादिति युक्तम् , १"त्रयो धर्मस्कन्धाः" इति त्रित्वेन संगृह्य १"प्रथमो...द्वितीयः....तृतीयः" इति विभागवचनानुपपत्तेः । अतः १. छा. २-२३-१४-२.छा.५-१०-१॥-३.यजु. १-का. ५-प्र. २-अनु । For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy