________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] पुरुषार्थाधिकरणम्.
३६१ र्वदा कर्म कुर्वमपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति । वा. क्यशेषश्चैवमेव दर्शयति-१"एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे" इति । अतो न कर्माङ्ग विद्या ॥ १४ ॥
कामकारेण चैके । ३।४।१५॥
अपि चैवमेके शाखिनः कामकारेण ब्रह्मविद्यानिष्ठस्य गार्हस्थ्यत्यागमधीयते २" किं प्रजया करिष्यामो येषां नोयमात्माऽयं लोकः" इति । विदुषो विरक्तस्य कामकारेण गार्हस्थ्यकर्मत्यागं ब्रुवदिदं वचनं ब्रह्मविद्यायाः कर्मानङ्गत्वं दर्शयति । यज्ञादिकाङ्गत्वेहि विद्यायाः वि. धानिष्ठस्य कामकारेण गार्हस्थ्यत्यागो न सम्भवति । अतो न विद्या कर्माकम् ॥१५॥
उपमर्दै च । ३।४।१६॥ पुण्यापुण्यरूपस्य समस्तसांसारिकदुःखमूलस्य कर्मणो ब्रह्मविद्ययोपमर्द च प्रतिवेदान्तमधीयते । ३" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्से चास्य कर्माणि तस्मिन् दृष्टे परावरे"इत्यादिकम् । तद्विघायाः काङ्गत्वे न सङ्गच्छते ॥१६॥ ऊर्ध्वरेतस्सु च शब्दे हि । ३।४।१७॥
ऊर्ध्वरेतस्वाश्रमेषु ब्रह्मविद्यादर्शनातेष्वग्निहोत्रदर्शपूर्णमासादिकआमावाच्च न विद्या कर्माङ्गम्। ननूवरेतस आश्रमा न सन्त्येव ४"यावजीवमग्निहोत्रं जुहोति" इत्यादिनाऽग्निहोत्रदर्शपूर्णमासादीनां यावज्जीवाधिकारश्रुतेः श्रुतिविरुद्धानां स्मृतीनां चाप्रामाण्यात् । अत आह-शब्दे हि-इति। वैदिक एव हि शब्दे ते दृश्यन्ते "त्रयो धर्मस्कन्धाः " ६"ये चेमेऽरण्ये श्रद्धा तप इत्युपासते " "एतमेव प्रवाजिनो लोकमिच्छन्तः
१. ईशा. १-२ ॥-२.बृ. ६-४-२२॥-३, मु, २-२-८॥–४. आपस्तम्बश्रौत. ३-१४-८ ॥ बढच इति शाबरः ॥-५. छा. २-२३-१॥-६. छा.५-१०-१।।
*46
For Private And Personal Use Only