________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६०
श्रीशारीरकमीमांसाभाष्ये
[अ. ३०
यदुक्तं विद्यावतः कर्मविधानाद्विद्या कर्माङ्गम् इति नैतद्यक्तम्, १" वेदमधीत्य " इत्यध्ययनमात्रवतो विधानात् । नचाध्ययनविधिरेवार्थबोधे प्रवर्तयति, आधानवदध्ययनस्याक्षरराशिग्रहणमाले पर्यवसानात् । गृहीतस्य च स्वाध्यायस्य फलवत्कर्मावबोधित्वदर्शनात्तनिर्णयफले तदर्थविचारे पुरुषः स्वयमेव प्रवर्तते ; ततः कर्मार्थी कर्मज्ञाने प्रवर्तते, मोक्षार्थी च ब्रह्मज्ञान इति न विद्या कर्माङ्गम् । यद्यप्यध्ययनविधिरेवार्थावबोधे प्रवर्तयति ; तथापि न विद्या कर्माङ्गम्, अर्थज्ञानादर्थान्तरत्वाद्विलायाः । यथा ज्योतिष्टोमादिकर्मस्वरूपविज्ञानात्फलसाधनभूतं कर्मानुष्ठानमर्थान्तरम् ; तथाऽर्थज्ञानरूपाद्ब्रह्मस्वरूपविज्ञानादर्थान्तरमेव ध्यानोपासनादिशब्दवाच्या पुरुषार्थसाधनभूता विद्येति न तस्याः कर्मसम्बन्धगन्धो विद्यते ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नाविशेषात्।३।४।१३॥
यथोक्तं २ "कुर्वनेवे कर्माणि " इत्यात्मविदं ज्ञानाद्वयावर्त्य यावज्जीवं कर्मानुष्ठाने नियमयतीति; तनोपपद्यते ; अविशेषात् नह्ययं नियमः फलसाधनभूत स्वतन्त्रकर्मविषय इति विशेषहेतुरस्ति, विद्याङ्गभूतकर्मविषयतयाऽप्युपपत्तेः । ३ “कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इति च विदुषस्त्वाप्रयाणादुपासनस्यानुवर्तमानत्वात् ॥ १३ ॥
एवमर्थस्वाभाव्येन चोद्यं परिहृत्य २ " कुर्वनेवेह कर्माणि " इत्यस्य वाक्यस्यार्थमाह
स्तुतयेऽनुमतिर्वा । ३ । ४ । १४॥
वाशब्दोऽवधारणार्थः ; २ " " ईशावास्यमिदं सर्वम्” इति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम् । विद्यामाहात्म्यात्स
१. छा. ८-१५-२ ॥ -२. ईशावास्य २ ॥ - ३. गी, ३-२० ॥
For Private And Personal Use Only