SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५९ पा. ४. पुरुषार्थाधिकरणम् । त्यागः १"ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे" इत्यादौ । अतो ब्रह्मविदां कर्मत्यागदर्शनान विद्या कोङ्गम्। कथमिदमुपपद्यते-ब्रह्मविदां कर्मानुष्ठानमननुष्ठानश्च ? फलाभिसन्धिरहितस्य यज्ञादिकर्मणो ब्रह्मविद्याङ्गत्वात्तथाविधस्य कर्मणोऽनुष्ठानदर्शनमुपपद्यते । वक्ष्यतिच२ "सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्" इति। फलार्थस्य तस्यैव यज्ञादेः कर्मणो मोक्षकफलब्रह्मविद्याविरोधित्वात्तस्याननुष्ठानदर्शनमुपपन्नतरम् । विद्यायाः कर्माङ्गत्वे कर्मत्यागः कथमपि नोपपद्यते॥९॥ यदुक्तं श्रुत्यैव विद्यायाः कर्माङ्गत्वमवगम्यते इति । तत्राह असार्वत्रिकी ।३।४।१०॥ न सर्वविद्याविषयेयं श्रुतिः, अपितूद्गीथविद्याविषयैव ३ " यदेव विद्यया करोति" इति यच्छब्दस्यानिर्धारितविशेषस्य ४ "उद्गीथमुपासीत" इति प्रस्तुतोद्गीथविशेषनिष्ठत्वात् । नहि यत्करोति, तद्विद्ययेति सम्बध्यते; यदेव विद्यया करोति, तदेव वीर्यवत्तरमिति विद्यया क्रियमाणं यच्छब्देन निर्दिश्य तस्य हि वीर्यवत्तरत्वमुच्यते ॥ १० ॥ यचेदमुक्तं ५"तं विद्याकर्मणी समन्वारभेते" इति विद्याकर्मणोस्साहित्यदर्शनाद्विद्या कर्माङ्गम्-इति । तत्राह विभागश्शतवत् ।३।४।११॥ ५"तं विद्याकर्मणी समन्वारभेते" इत्यत्रोक्तेन न्यायेन विद्याकर्मणोभित्रफलत्वाद्विद्या स्वस्मै फलाय समन्वारभते, कर्म च स्वस्मै फलायेति विभागो द्रष्टव्यः । शतवत्-यथा क्षेत्ररत्नविक्रयिणं शतद्वयमन्वेतीत्युक्ते क्षेत्रार्थ शतम् , रत्नार्थ शतमिति विभागः प्रतीयते; तथेहापि ॥ अध्ययनमात्रवतः ।३।४।१२॥ .. १॥–२, शारी. ३-४-२६ ॥-३. छा. १-१.१० ॥-४. छा, १.१-१ ॥५.बृ. ६-४.२॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy