________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३५८
श्रीशारीरकमीमांसाभाष्ये
[अ. ३.
निरस्तनिखिलहेयगन्धस्य स्वसङ्कल्प कृतजगदुदयविभवलयलीलस्य सर्वज्ञस्य सर्वशक्तेर्वायनसापरिच्छेद्यानन्दस्य जीवाधिपस्य कृत्स्नस्य प्रशासितुः परस्य ब्रह्मणो वेदनोपदेशवाक्येषु दर्शनात् " अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः " २" तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" ३" यस्सर्वज्ञस्सर्ववित्' '४' पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च "५ " स एको ब्रह्मण आनन्दः” ६“यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्म
Acharya Shri Kailassagarsuri Gyanmandir
विद्वान् न विभेति कुतश्चनेति" " " एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरणः " ८" स कारणं करणाधिपाधिपो नचास्य कश्चिज्जनिता नचाधिपः " ९ “ एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः ) ” १० " भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निवेन्द्रश्च । मृत्युर्धावति पञ्चमः" इत्यादिषु । तस्माद्वेदनोपदेशशब्देषु कर्तुः प्रत्यगात्मनः खद्योतकल्पस्याविद्यादिहेय सम्बन्धयोग्यस्य गन्धोऽपि नास्तीति परमपुरुषविषयाया विद्यायास्तत्प्राप्तिरूपममृतत्वं तत्रतत्व श्रूयमाणं फलमिति विद्यातः पुरुषार्थ इति सुष्टुक्तम् ॥ ८ ॥
लिङ्गान्यपि निरस्यन्ते
तुल्य तु दर्शनम् । ३ । ४।९॥
यदुक्तं - ब्रह्मविदां कर्मानुष्ठानदर्शनाद्विद्या कर्माङ्गम् - इति; तन्न विद्याया अनङ्गत्वेऽपि तुल्यं दर्शनम्, ब्रह्मविदां कर्मानुष्ठानदर्शनमनैकान्तिकमित्यर्थः, अननुष्ठानस्यापि दर्शनात् । दृश्यते हि ब्रह्मविदां कर्म -
१. छा. ८-१-५॥ - २. छा. ६-२-३ ॥ - ३. मु. १-१-९॥ - ४ वे. ६-८ ॥ तै. आन. ८-४ ॥ - ६. तै. आन. ४-१ ॥ —७. बृ. ६-४-२२ ॥ -८. श्वे. ६-९ ॥
५.
- ९.३५८-९॥ - *कुण्डलितो वाक्यशेषः केषुचित्कोशेषु न दृश्यते ॥ - १०. तै. आ. ८ १ ॥
For Private And Personal Use Only