________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४. ]
पुरुषार्थाधिकरणम्.
३५७
दृश्यते । साहित्यं चोक्तेन न्यायेन विद्यायाः कर्माङ्गत्वे सत्येव भवति ॥
तद्वतो विधानात् । ३।४।६॥
विद्यावतः कर्मविधानाद्विद्या कर्माङ्गमित्यवगम्यते - १“ आचार्य - कुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमादृत्य कुटुम्बे शुचौ देशे" इत्यादौ । १" वेदमधीत्य " इत्यध्ययनवतः कर्माणि विदधदथबधपर्यन्ताध्ययनवत एव विदधाति । अर्थावबोधपर्यन्तं द्यध्ययनमिति स्थापितम् । अतो ब्रह्मविद्यापि कर्मसु विनियुक्तेति न पृथक्फलाया कल्पते ।। ६ ।।
एवं प्राप्ते प्रचक्ष्म
Acharya Shri Kailassagarsuri Gyanmandir
नियमात् । ३ । ४ । ७॥
इतश्च न विद्यातः पुरुषार्थः । २" कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" इत्यात्मविदः पुरुषायुषस्य सर्वस्य कर्मसु नियमेन विनियोगात्कर्मण एव फलमित्यवगम्यते । विद्या तु कर्माङ्गमिति ॥ ७ ॥ (सिद्धान्तः (fadira:)
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् । ३ । ४ । ८॥
तुशब्दात्पक्षो व्यावृत्तः विद्यात एव पुरुषार्थः ; कृतः १ अषिकोपदेशात्- कर्मसु कर्तुर्जीवाद्धेयप्रत्यनीकानवाधिकातिशयासङ्ख्येयकल्याणगुणाकरत्वेनाधिकस्यार्थान्तरभूतस्य परस्य ब्रह्मणो वेद्यतयोपदेशात् भगवतो बादरायणस्य विद्यातः ३फलमित्येवमेव मतम् । लिङ्गानि ति - ष्ठन्तु ; वेद्यतयोपदेशस्तु तावत्कर्तुः प्रत्यगात्मनोऽधिकस्यैव । कथम् तदर्शनात् - प्रत्यगात्मन्यशुद्धे शुद्धेऽप्यसम्भावनीयानन्तगुणाकरस्य वेद्यस्य १. छा. ८-१५-१ ॥ २. ईशावास्य २ ॥ ३. पुरुषार्थ इत्ये. पा ॥
For Private And Personal Use Only