________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाग्ये लौकिकस्य कर्मणः कर्तुर्दैहादव्यतिरिक्तत्वेऽप्युपपत्तेर्देशातिरिक्तनित्यात्मखरूपस्य कतावेवोपयोगाचत्वरूपप्रतिपादनमुखेन क्रत्वनुप्रवेशो न विरुध्यते । अतो विद्यायाः क्रतुशेषत्वानातः पुरुषार्थः॥२॥
कानि पुनस्तानि लिङ्गानि ; यदुपबृंहितसामानाधिकरण्यनिर्देन वेदान्तशब्दा जीवखरूपपरा इति निर्णीयन्ते । तत्राह
आचारदर्शनात् । ३।४।३॥ ब्रह्मविदां प्राधान्येन कर्मस्खेवाचारो दृश्यते-अश्वपतिः केकयः किल आत्मवित्तमस्तद्विज्ञानायोपगतांस्तानृषीन् प्रत्याह-१" यक्ष्यमाणो हवै भगवन्तोऽहममि" इति । तथा जनकादयो ब्रह्मविदग्रेसराः कर्मनिष्ठाः स्मृतिषु दृश्यन्ते "कर्मणैव हि संसिद्धिमास्थिता जनकादयः"
"इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः" इति । अतो ब्रह्मविदा कर्मप्रधानत्वदर्शनादिद्यायाः कर्वस्वरूपवेदनरूपत्वेन कर्माङ्गत्वमेवेति न विद्यातः पुरुषार्थः ॥ ३॥ लिङ्गमिदम् । प्राप्तिरुच्यतामित्यत्राह
तच्छुतेः। ३।४।४॥ श्रुतिरेव हि विद्यायाः काङ्गत्वमाह- "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति । नेयं श्रुतिः प्रकरणाहुगीयमानविषयेति व्यवस्थापयितुं शक्या; यतः प्रकरणाच्छ्रतिर्बलीयसी; ४" यदेव विद्यया करोति" इति विद्यामानविषया हीयं श्रुतिः ॥४॥
समन्वारम्भणात् । ३।४।५॥ ५"सं विद्याकर्मणी समन्वारभेते" इति विद्याकर्मणोस्साहित्यं च
१. छा, ५-११.५ ॥२. गो. ३-२०॥-३. वि. ६-६-१२ ॥-४. छा. १. १-१० -५.. ६-४-२॥
For Private And Personal Use Only