________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] पुरुषार्थाधिकरणम्.
३५५ . नैतदेवम्-यद्विधातः पुरुषार्थावाप्तिश्शब्दादवगम्यते-इति । न शेष: १"ब्रह्मविदामोति परम्" इत्यादिशब्दो वेदनात्पुरुषार्थावाप्तिमवगमयति, कर्मसु कर्तृभूतस्याऽत्मनो याथात्म्यवेदनप्रतिपादनपरत्वात्।अतः कर्तुस्संस्कारद्वारेण विद्यायाः क्रतुशेषत्वात्तत्र फलश्रुतिरर्थवादमात्रम् यथाऽन्येषु द्रव्यादिषु-इति जैमिनिराचार्यो मन्यते । तदुक्तं २"द्रव्यगुणसंस्कारकमसु परार्थत्वात्फलश्रुतिरर्थवादस्स्यात्" इति । ननुच कर्मसु कर्तुर्जीवादन्यो मुमुक्षुभिः प्राप्यतया वेदान्तेषु वेद्य उपदिश्यत इति प्रागेवोपपादितं-३"नेतरोऽनुपपत्तेः" "भेदव्यपदेशाच" ५ "अनुपपत्तेस्तु न शारी र" "इतरपरामर्शात्स इति चेन्नासम्भवात्" इत्येवमादिभिस्सूत्रैः त देव ब्रह्म तत्त्वमस्यादिसामानाधिकरण्येन जीवादनतिरिक्तमित्येतदपि ७"अधिकं तु भेदनिर्देशात्" इत्येवमादिभिर्निरस्तम् । सामानाधिकरण्यनिर्देशश्च "ऐतदात्म्यमिदं सर्व" ९"सर्वं खल्विदं ब्रह्म" इति चेतनाचेतनसाधारणः १०"यः पृथिव्यां तिष्ठन्" ११ “य आत्मनि तिष्ठन्।" इत्यादिनाऽवगततत्तदात्मतयाऽवस्थितिनिवन्धन इति १२ "अवस्थितेरिति काशकृत्स्नः" इत्यादिभिरुपपादितम् । तत्कथं कर्मसु कर्तुरात्मनो याथात्म्योपदेशपरा वेदान्तशब्दा इति विद्यायाः काङ्गत्वं प्रतिपाद्यते। उच्यते -वेदान्तवाक्येष्वेव विद्यायाः कर्मप्राधान्यं सूचयद्भिर्लिङ्गैस्तदुपबृंहितसामानाधिकरण्यनिर्देशेन च वेदान्तशब्दा देहातिरिक्तजीवखरूपयाथाम्योपदेशपरा इति बलादभ्युपगमनीयमिति पूर्वपक्षिणोऽभिप्रायः । ननु च कर्तृसंस्कारमुखेन विद्यायाः क्रत्वनुप्रवेशो न शक्यते वक्तुम्, कर्तुलौकिकवैदिकसाधारणत्वेनाव्यभिचरितक्रतुसम्बन्धित्वाभावात् । नैवम्।
१. ते, आ. १-अनु॥-२. पूर्वमीमांसा.४-३-१ ॥-३. शारी.१-१-१७॥-४. शारी.१-१-१८॥-५. शारी. १-२-३ ॥-६. शारी. १-३-१७ ॥-७. शारी. २.१. २२ ॥-८. छा.६-८-७॥-९. स. ३-१४-१०-१०. १.५-७-३॥-११, इ.५-७. २२. मा-पा ॥-१२. शारी. १-४-२२ ॥
For Private And Personal Use Only