________________
Shri Mahavir Jain Aradhana Kendra
૧૮
www.kobatirth.org
वेदान्तदीपे
Acharya Shri Kailassagarsuri Gyanmandir
[अ. २.
सर्वमसमञ्जसं स्यात् ॥ ८ ॥
न तु दृष्टान्तभावात् ॥ नैतत् १ " यस्यात्मा शरीरम् " २" यस्याव्यक्तं शरीरम्" इत्यादिश्रुतिसिद्धविदचिद्वस्तुशरीरकस्य ब्रह्मणः कार्यकारणभावेनास्थाने गुणदोषव्यवस्थितेः दृष्टान्तसद्भावात्, यथा जीवस्य सशरीरस्य मनुप्याद्यात्मनो बालत्व युवत्वस्थविरत्वादिभावेऽपि बालत्वादयश्शरीरे तिष्ठन्ति, ज्ञानसुखादयश्चात्मन्येव; तद्वदत्रापि शरीरभूतचिदचिद्वस्तुगतान्यज्ञानविकारादीनि दोषाः । आत्मभूतेतु ब्रह्मणि निरवद्यत्वाविकारित्वसार्वज्ञ सत्यसङ्कल्पत्वादयः ॥ ९ ॥
स्वपक्षदोषाच्च । प्रधानकारणदोषाश्चायमेव ग्राह्यः । प्रधानकारणवादे हि निर्विकारपुरुषसन्निधानात् प्रकृतिप्रवृत्तावितरेतरधर्माध्यासादयो दुरुपपादाः । अन्यत्रान्यधर्मानुसन्धानरूपोऽध्यासः निर्विकारपुरुषस्य न सम्भवति, भचेतनायाः प्रकृतेरनुसन्धानरूपोऽभ्यासस्सुतरान्न सम्भवति ॥ १० ॥
तर्काप्रतिष्ठानादपि । प्रधानकारणवादस्य कुतर्कमूलत्वात् तस्याप्रतिष्ठितत्वादपि त्याज्यं प्रधानम् ॥ ११ ॥
अन्यथाऽनुमेयमितिचेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ कृप्तप्रकारात् प्रकारान्तरेण प्रधानमनुमेयमिति चेत् — एवमपि ततोऽधिककुतर्क कुशलसम्भावनया अप्रतिष्ठितत्वात् अनिर्मोक्षप्रसङ्गः दुर्वारस्स्यात् ॥ १२ ॥
इति वेदान्तसारे विलक्षणत्वाधिकरणम् ॥ ३ ॥
For Private And Personal Use Only
वेदान्तदीपेन विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ किं वेदान्तानां जगत्कारणतया प्रधानपरत्वम् ? उत ब्रह्मपरत्वमिति संशयः । प्रधानपरत्वमिति पूर्वः पक्षः, अज्ञत्वादिना जगतो ब्रह्मविलक्षणत्वेन ब्रह्मकार्यत्वप्रतिपादनासम्भवात्, सालक्षण्येन प्रधानकार्यत्वप्रतिपादनपरत्वस्य च सम्भवात्। राद्धान्तस्तु- माक्षिकादिभ्यः क्रिम्यादीनां विलक्षणानामुत्पत्तिदर्शनात् ब्रह्मविलक्षणस्य जगतः तत्कार्यत्वं सम्भवत्येव - इति । सूत्रार्थस्तु - अज्ञत्वेनासुखत्वेनचोपलब्धस्य चास्य जगतः सर्वज्ञाद्धेयप्रत्यनीकान्निरतिशयानन्दाद्ब्रह्मणो विलक्षणत्वेन जगतो ब्रह्मकार्यत्वप्रतिपादनं वेदान्तानां न सम्भवति । तथात्वं २. सुबाल, ७- खं ॥
१. बृ. ५-७-२२. मा. पा ॥