________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
विलक्षणत्वाधिकरणम् . विलक्षणत्वं च शब्दादवगम्बते, न केवलं प्रत्यक्षाधुपलध्या, "विज्ञानश्चाविज्ञानश्च" २" अनीशया शोचति मुह्यमानः" ३"अनीशश्चात्मा बध्यते भोक्तृभावात्" इत्यादेः ॥४॥
४"आपो वा अकामयन्त" ५'तं पृथिव्यब्रवीत्" इत्यादौ पृथिव्यादेरपि झानकार्य व्यपदिश्यते, तस्मात् , ६"अविज्ञानश्च" इत्येतदन्यपरमित्यत उत्तरं पठति
__ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यम् ॥ तुशब्दश्वोचं व्यावर्तयति; पृथिव्याद्यभिमानिदेवतानामयं व्यपदेशः। कुतोऽवगम्यते,विशेषानुगतिभ्यां विशेषः - विशेषणम्. ७" हन्ताहमिमास्तिस्रो देवताः" इति पृथिव्यादेवताशब्देन विशेषणं दृश्यते, ८"सर्वा ह वै देवता अहंश्रेयसे विवदमानाः" इति च वागादिप्राणपर्यन्तस्य च । तथा अनुगतिः-अनुप्रवेशः, अग्न्यादीनां वागाद्यनुप्रवेशो दृश्यते, ९“अग्निर्वाग्भूत्वा मुखं प्राविशत् आदित्यश्चक्षुभूत्वाऽक्षिणी प्राविशत् वायुः प्राणो भूत्वा नासिके प्राविशत्" इत्यादौ ॥५॥
दृश्यते तु ॥ तुशब्दः पक्षं व्यावर्तयति, माक्षिकादिभ्यो विलक्षणानां क्रिम्यादीनामुत्पत्तिदृश्यते, अतो ब्रह्मविलक्षणस्यापि जगतस्तत्कार्यत्वं सम्भयति ॥६॥
असदितिचेन्न प्रतिषेधमानत्वात् ॥ यदि कार्यस्य कारणाद्विलक्षणद्रव्यत्वमभ्युपगम्यते, तर्हि कारणे कार्य न सद्भवतीत्यसत्कार्यवादोऽभ्युपगतस्स्यात् तथा सति१०"सर्व खल्विदं ब्रह्म' इति सामानाधिकरण्यव्यपदेशो न घटत इति चेत्-तन्न, कार्यकारणयोस्सालक्षण्यनियमप्रतिषेधमात्रत्वादस्माभिः पूर्वमभिहितस्य । कार्यकारणयोरेकद्रव्यत्वं स्वीकृतमेव । एकमेव कारणावस्थं द्रव्यं कार्यावस्थाम्भजमानं सलक्षणावस्थामपि भजते, विलक्षणावस्थामपीत्यर्थः ॥ ७॥
अपीतो तद्वत्प्रसादसमञ्जसम् ॥ यदि ब्रह्मैव सर्वशं सत्यसङ्कल्पं निरतिशयानन्दमपहतपाप्मत्वादिस्वरूपं तद्विपरीतजगदवस्थां भजते ; तर्हि पि
१. तै. आन. ६॥ २. मु. ३-१-२॥ ३. श्वे. १-७॥ ६. ते. आन. ६ ॥ ७. छा. ६-३-२॥ ४. ३. अष्टक. १-प्रश्न. ५-अनु॥
८. बृ. ८-१-६ ॥ ५. यजुषि. ५. काण्ड. ५. प्रश्न. २-अनु. ९. ऐवरेय. २-४॥ १..छा. ३-१४ १॥
१०-वा।।
For Private And Personal Use Only