________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] विलक्षणत्वाधिकरणम् पुरुषबुद्धिमूलतकावलम्बनस्य तथैव देशान्तरकालान्तरेषु त्वदधिककुतर्ककुशलपुरुषोत्प्रेक्षिततर्कदृष्यत्वसम्भावनया तर्काप्रतिष्ठानदोषादनिर्मोक्षो दुर्वारः । अतोऽतीन्द्रियेऽर्थे शास्त्रमेव प्रमाणम् । तदुपबृंहणायैव तर्क उपादेयः । तथाचाह १“आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तकेंणानुसन्धत्ते स धर्म बेद नेतरः" इति । वेदाख्यशास्त्राविरोधिनेत्यर्थः। अतो वेदविरोधित्वेन वेदार्थविशदीकरणरूपवेदोपबृंहणतर्कोपादानाय साङ्ख्यस्मृतिर्नादरणीया ॥१२॥
इति श्रीशारीरकमीमांसाभाष्ये विलक्षणत्वाधिकरणम् ॥ ३ ॥
वेदान्तसारे-न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ विकारास्पदत्वेनाशत्वेनापुरुषार्थाश्रयत्वेन च जगतो ब्रह्मविलक्षणत्वात्तत्कार्यत्वन सम्भवति; विलक्षणत्वञ्च शब्दाचावगम्यते,२"विज्ञानञ्चाविज्ञानश्च" इत्यादेः॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ ३"तं पृथिव्यब्रवीत्" ४"आपो वा अकामयन्त" इत्यादौ शानकार्यव्यपदेशः तत्तदभिमानिदेवताविषय इति, ५"हन्ताहमिमास्तिस्रो देवताः" इति देवताशब्देन विशेषितत्वात् , ६"अग्निर्वाग्भूत्वा मुखं प्राविशत्" इत्यादिना तत्तदचिवस्त्वभिमानित्वेन देवतानुगतेश्वावगम्यते ॥५॥ - दृश्यते तु॥ विलक्षणयोरपि कार्यकारणभावस्सम्भवति,माक्षिकादिभ्यः क्रिम्याद्युत्पत्तिदर्शनात् ॥६॥
असदितिचेन प्रतिषेधमात्रत्वात् ॥ एवन्तर्हि कार्य कारणे असदितिचेत्–न, सालक्षण्यनियमप्रतिषेधमात्रत्वात् , पूर्वोक्त कार्यकारणयोर्वस्त्वैक्यन्न त्यक्तम् ॥७॥
___ अपीतौ तद्वत्मसङ्गादसमञ्जसम् ॥ जगतो ब्रह्मकारणत्वेन वस्त्वैक्येन तस्मिन्नपीत्यादौ जगत इव ब्रह्मणोऽपि विकारित्वाद्यनिष्टप्रसगावेदान्तवाक्यं १. मनु. १२-१०६ ॥
४. अष्टक-३. प्र-१. अनु-५ ॥ २. ते. आन. ६ ॥
५. छा. ६-३-२॥ ३. यजुषि.५-काण्ड.५-प्रश्न.२ -अनु.१०-वा. ६. ऐतरेय. २-४॥
*3
For Private And Personal Use Only