________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
श्रीशारीरकमीमांसाभाष्ये
बात्' इति सूत्रद्वयेन " इतरव्यपदेशात्" इत्यधिकरणसिद्धोऽर्थस्मारितः।। स्वपक्षदोषाच्च । २ । १ । १० ॥
[म. २.
न केवलं ब्रह्मकारणवादस्य निर्दोषतयैतत्समाश्रयणम् प्रधानकारणवादस्य दुष्टत्वाश्च तत्परित्यज्यैतदेव समाश्रयणीयम् । प्रधानकारणवादे हि जगत्प्रवृत्तिर्नोपपद्यते । तत्र हि निर्विकारस्य चिन्मात्रैकरसस्य पुरुषस्य प्रकृतिसन्निधानेन प्रकृतिधर्माध्यासनिबन्धना जगत्प्रवृत्तिः । निर्विकारस्य चिन्मात्ररूपस्य प्रकृतिधर्माध्यासहेतुभूतं प्रकृतिसन्निधानं किंरूपमिति विवेचनीयम् ; किं प्रकृतेस्सद्भाव एवः उत तद्गतः कश्चिद्विकारः ; अथ पुरुषगत एव कश्चिद्विकारः । न तावत्पुरुषगतः, अनभ्युपगमात् ; नापि प्रकृतेर्विकारः, तस्याध्यासकार्यतयाऽभ्युपेतस्याध्यास हेतुत्वासम्भवात् ; सद्भावमात्रस्य सन्निधानत्वे मुक्तस्याप्यध्यासप्रसङ्ग - ति त्वत्पक्षे जगत्प्रवृत्तिर्नोपपद्यते । अयमर्थस्साङ्ख्यपक्षप्रतिक्षेपसमये २" अभ्युपगमेऽप्यर्थाभावात्" इत्यादिना प्रपञ्चयिष्यते ॥ १० ॥ तर्काप्रतिष्ठानादपि । २।१।११॥
तर्कस्याप्रतिष्ठितत्वादपि श्रुतिमूलो ब्रह्मकारणवाद एव समाश्रयणीयः न प्रधानकारणवादः । शाक्योलूक्याक्षपादक्षपणकपिलपतञ्जलितर्काणामन्योन्यव्याघातात्तर्कस्याप्रतिष्ठितत्वं गम्यते ॥ ११ ॥ अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्ष
For Private And Personal Use Only
प्रसङ्गः । २ । १ । १२ ॥
इदानीं विद्यमानानां शाक्यादीनां तर्कानुष्यान्यथा प्रधानकारणवादमतिक्रान्ततदुपदर्शितदूषणत्वेनानुमास्यामह इति चेत् — एवमपि
१. शारी. २-१-२१ ॥
२. शारी. २-२-८ ॥