________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
विलक्षणत्वाधिकरणम् पशुप्रभृतिष्वत्यन्तविलक्षणाकारेषु द्रव्येष्वगौणः प्रयुज्यमानो दृश्यते । तेन तस्य प्रवृत्तिनिमित्तव्यवस्थापनं सर्वप्रयोगानुगुण्येनैव कार्यम् । त्वदुक्तं च 'कर्मफलभोगहेतुः' इत्यादिकं प्रवृत्तिनिमित्सलक्षणं न सर्वप्रयोगानुगुणम् , यथोक्तेष्वीश्वरशरीरतयाऽभिहितेषु पृथिव्यादिष्वव्याः । किश्च ईश्वरस्येच्छाविग्रहेषु मुक्तानां च १“स एकधा भवति" इत्यादिवाक्यावगतेषु विग्रहेषु तल्लक्षणमव्याप्तम् , कर्मफलभोगनिमित्तत्वाभावात्तेषाम् परमपुरुषेच्छाविग्रहाश्च न पृथिव्यादिभूतसङ्घातविशेषाः २"न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः" इति स्मृतेः।अतो भूतसङ्घातरूपत्वं च शरीरस्याव्याप्तम् । पञ्चवृत्तिप्राणाधीनधारणत्वं च स्थावरशरीरेष्वव्याप्तम् । स्थावरेषु हि माणसद्भावेऽपि तस्य पञ्चधा अवस्थाय शरीरस्य धारकत्वेनावस्थानं नास्ति । अहल्यादीनां कर्मनिमित्तशिलाकाष्ठादिशरीरेष्विन्द्रियाश्रयत्वं सुखदुःखहेतुत्वं चाव्याप्तम् । अतो यस्य चेतनस्य यदव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यम् , तच्छेषतैकवरूपं च, तत्तस्य शरीरमिति शरीरलक्षणमास्थेयम् । रुग्णशरीरादिषु नियमनाघदर्शनं विद्यमानाया एव नियमनशक्तेः प्रतिबन्धकृतम्, अग्न्यादेशक्तिप्रतिबन्धादौष्ण्याद्यदर्शनवतामृतशरीरं च चेतनवियोगसमय एव विशरितुमारन्धम् ; क्षणान्तरे च विशीर्यते। पूर्व शरीरतया परिकृप्तसवातैकदेशत्वेन च तत्र शरीरत्वव्यवहारः। अतस्सर्व परमपुरुषेण सर्वात्मना स्वार्थे नियाम्यं धार्य तच्छेषतैकवरूपमिति सर्व चेतनाचेतनं तस्य शरीरम्। ३"अशरीरं शरीरेषु"इत्यादिच कर्मनिमित्तशरीरप्रतिषेधपरम् , यथोक्तसर्वशरीरत्वश्रवणात् । उपरितनाधिकरणेषु चैतदुपपादयिष्यते। 'अपीतौ तद्वत्प्रसङ्गादसमञ्जसं' 'नतु दृष्टान्तभा
३. कठ.२-२२ ॥
१. छा. ७-२-६२॥ २. भारते ॥
For Private And Personal Use Only