________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये
[भ. २. दयो नात्मनि सम्बध्यन्ते; आत्मगताश्च ज्ञानसुखादयो न शरीरे । अथ च'देवो जातो मनुष्यो जातः,तथा स एव बालो युवा स्थविरश्च'इति ब्यपदेशश्च मुख्यः; भूतसूक्ष्मशरीरस्यैव क्षेत्रज्ञस्य देवमनुष्यादिभाव इति १" तदन्तरप्रतिपत्तौ" इति वक्ष्यते-इति। यत्पुनरुक्तं-चिदचिदात्मकस्य जगतस्स्थूलस्य सूक्ष्मस्य च परमात्मानं प्रति शरीरभावो नोपपद्यते-इतिः तदनाकलितसम्यङ्ग्यायानुगृहीतवेदान्तवाक्यगणस्य स्वमतिपरिकल्पितकुतर्कविजृम्भितम्। सर्व एवहि वेदान्ताः स्थूलस्य सूक्ष्मस्य चेतनस्याचेतनस्य समस्तस्य च परमात्मानं प्रति शरीरत्वं श्रावयन्ति; वाजसनेयके तावत्काण्वशाखायां चान्तर्यामिब्राह्मणे २ "यः पृथिव्यां तिष्ठन् ...... यस्य पृथिवी शरीरम्" इत्यारभ्य पृथिव्यादिसमस्तमचिद्वस्तु ३“यो विज्ञाने तिष्ठन् ...... यस्य विज्ञानं शरीरम्" ४" य आत्मनि तिष्ठन् ... ... यस्यात्मा शरीरम्" इति चेतनमचेतनं च पृथक्पृथनिर्दिश्य तस्य तस्य परमामशरीरत्वमभिधीयते । सुवालोपनिषदि च ५“यः पृथिवीमन्तरे सश्चरन्यस्य पृथिवी शरीरम्" इत्यारभ्य तद्वदेव चिदचितोस्सर्वावस्थयोः परमात्मशरीरत्वमभिधाय५“एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति तस्य सर्वभूतानि प्रत्यात्मत्वमभिधीयते । स्मरन्ति च ६" जगत्सर्व शरीरं ते" ७“यदम्बु वैष्णवः कायः" "तत्स4 वै हरेस्तनुः" ९ "तानि सर्वाणि तद्वपुः" १० “सोऽभिध्याय शरीरास्वात्" इत्यादि। भूतसूक्ष्मात्स्वाच्छरीरादित्यर्थः। लोके च शरीरशब्दो घटादिशब्दवदेकाकारद्रव्यनियतवृत्तिमनासादितः क्रिमिकीटपतङ्गसर्पनर१. शारी, ३-१-१॥
६.रामायण.युद्धकाण्डे.१२०-सर्गे. २९-को। २. बृ. ५-७-३॥
७. वि. पु. २-१२-३७ ॥ ८. वि पु. १-२२.३८॥
९. वि. पु. १-२२-८६ ॥ ५.सुवाल. ७. ख॥
३. बृ. ५-७-२२ ॥ ४. .. ५-७-२२ ॥ मा. पाठः॥
१०. मनु. १-८॥
For Private And Personal Use Only