________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
विलक्षणत्वाधिकरणम्·
१३
रीरत्वं प्रत्युक्तम् । अथ मतं - यदिच्छाधीनस्वरूपस्थितिप्रवृत्ति यत्, तस्य शरीरमिति, सर्वस्येश्वरेच्छाधीनस्वरूपस्थितिप्रवृत्तित्वेनेश्वरशरीरत्वं सम्भवति - इति तदपि न साधीयः, शरीरतया प्रसिद्धेषु तत्तच्चेतनेच्छायत्तस्वरूपत्वाभावात्, रुग्णशरीरस्य तदिच्छाधीनप्रवृत्तित्वाभावात्, मृतशरीरस्य तदात्मायत्तस्थितित्वाभावाच्च, सालभञ्जिकादिषु चेतनेच्छाधीनस्वरूपस्थितिप्रवृत्तिषु तच्छरीरत्वाप्रसिद्धेश्व, चेतनस्य नित्यस्येश्वरेच्छायत्तस्वरूपत्वाभावाच्च न तच्छरीरत्वसम्भवः । नच यद्यदेकनियाम्यम्, यदेकधार्यम्, यस्यैकशेषभूतम्, तत्तस्य शरीरमिति वाच्यम्; क्रियादिषु व्यभिचारात् । " अशरीरं शरीरेषु " २" अपाणिपादो जवनो ग्रहीता" इत्यादिभिश्वेश्वरस्य शरीराभावः प्रतिपाद्यते । अतो जगद्ब्रह्मणोश्शरीरशरीरिभावस्यासम्भवात्तत्सम्भवे च ब्रह्मणि दोषप्रसङ्गाद्ब्रह्मकार - वादे वेदान्तवाक्यानामसामञ्जस्यम् - इति ॥ ८ ॥
(सिद्धान्त:.)
अनोत्तरम् -
I
न तु दृष्टान्तभावात् । २ ।१ । ९ ॥ नैवमसामञ्जस्यम् - एकस्यैवावस्थाद्वयान्वयेऽपि गुणदोषव्यवस्थितेदृष्टान्तस्य विद्यमानत्वात् । तुशब्दोऽत्र हेयसम्बन्धगन्धस्यासम्भावनीयतां द्योतयति । एतदुक्तं भवति - चिदचिद्वस्तुशरीरतया तदात्मभूतस्य परस्य ब्रह्मणस्सङ्कोचविकासात्मककार्यकारणभावावस्थाद्वयान्वयेऽपि न कश्चिद्विरोधः यतस्तङ्कोचविकासौ परब्रह्मशरीरभूतचिदचिद्वस्तुगत, शरीरगतास्तु दोषा नात्मनि प्रसज्यन्ते; आत्मगताश्च गुणा न शरीरे; यथा देवमनुष्यादीनां सशरीराणां क्षेत्रज्ञानां शरीरगता वाळत्वयुवत्वस्थविरत्वा
·
१. कठ. १-२-२२ ॥
२. वे. ३-१९ ॥
For Private And Personal Use Only