________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५३
पा. ३.]
यथाश्रयभावाधिकरणम् . सन एव प्रणवस्सर्वत्र सञ्चरति । अतः प्रणवसहमावनियमदर्शनादुपादाननियमो निश्चीयते ॥ २॥
न वा तत्सहभावाश्रुतेः ॥ न वोपादाननियमः, तत्सहभावाश्रुतेःउनीथायणभावाश्रुतेरित्यर्थः । क्रत्वाभावो हि सहभावः। १"यदेव विद्यया करोति...तदेव वीर्यवत्तरम्" इति वीर्यवत्सरत्वसाधनतयाऽवगताया विद्यायाः क्रत्वङ्गतया विनियोगासम्भवात् तदभावो हि न श्रूयते। यत्र साक्षात्फलसाधनत्वं प्रतिपाद्यते; तत्र फलसाधनत्वं प्रथमं प्रतीयत इति तस्य क्रत्वङ्गतया वि. नियोगो न सम्भवतीत्यभिप्रायः ॥ ३॥
दर्शनाच॥२ "एवं विद्ध वै ब्रह्मा यक्षं यजमानं सर्वाश्चर्विजोऽभिरक्षति" इति ब्रह्मणो वेदनेन यज्ञस्य यजमानस्य ऋत्विजां च रक्षणं अवस्यन्येषां वेदनाभावं दर्शयति । तचोद्रीयोपासनस्यानङ्गत्वे सस्येवोपपद्यते । अतश्योपादानानियमः॥६४॥
इति वेदान्तदीपे यथाश्रयभावाधिकरणम् ॥२६॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे तृतीयस्याध्यायस्य
तृतीयः पादः ॥ ३॥
-
१. छा. १.१.१.७-२, डा. ४.१७.१.॥
*45
For Private And Personal Use Only