________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
यथाश्रयभाषाधिकरणम्यम एवेति स्थितम् ॥ ६४॥
इति श्रीशारीरकमीमांसाभाष्ये यथाश्रयभावाधिकरणम् ॥ २६ ॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
तृतीयस्याध्यायस्य तृतीयः पादः॥३॥
वेदान्तसारे-अङ्गेषु यथाश्रयभावः ॥ १"उद्गीथमुपासीत" इत्यु ब्रीथाद्यनेम्वाश्रितानामुद्गीथादिवत् क्रत्वङ्गभाव एव, गोदोहनादिवत् खवाक्ये फलान्तराश्रवणात् उद्गीथादिसम्बन्धितया कत्वङ्गभावो न विरुध्यत इति॥५९॥
शिष्टेश्च ॥ १"उदीयमुपासीत" इति विधेः २ "यदेव विद्यया करोति" इत्यत्र विध्यभावाचाङ्गभावो न विरुद्धः ॥ ६॥
समाहारात् ॥ ३ "उद्गीथमनुसमाहरति" इति वेदनहानावन्येन समाधानं शुवत् वेदनस्याङ्गतां द्योतयति ॥ ६१ ।।
गुणसाधारण्यश्रुतेश्च ॥ प्रकृतोपासनस्यैव "ओमित्याश्रावयत्योमिति शंसस्योमित्युगायति" इति सर्वत्र सधरतः प्रणवस्य गुणत्वेनोपासनस्यापि सभारादुपासनोपादाननियमो गम्यते । अतः पूर्वोक्तोपादानानियमो न संभवति॥
न वा तत्सहभावाश्रुतेः॥ नैतत् , अङ्गभावाश्रुतेः । अङ्गभावो हिसहभावः। २“यदेव विद्यया करोति...तदेव वीर्यवत्तरम्" इति फलान्तरसाध. नतवाऽवगतस्योपासनस्याङ्गभावासंभवात् ,१"उद्गीथमुपासीत" इत्युरीयाश्रयतामात्रप्रतिपादनात् ॥ ६३ ॥
दर्शनाच ।।५"एवं विद्धवै ब्रह्मा यज्ञं यजमानं सर्वाश्चर्विजोऽभिरक्षति" इति ब्रह्मणो घेदनेन सर्वरक्षणं अवती श्रुतिरुद्रातृप्रभृतीनां वेदनस्य नङ्गतां दर्शयतीति उपासनोपादानानियमस्सिद्धः॥१४॥
इति वेदान्तसारे यथाश्रयभावाधिकरणम् ॥ २६ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तसारे तृतीयस्थाध्यायस्य
तृतीयः पादः॥३॥
१.छा. १.१.२॥-२. छा. १-१-१०॥-३. छा. १-५-५॥-४.छा. १.
For Private And Personal Use Only