SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५० श्रीशारीरकमीमांसाभाष्ये [अ. ३. वे हि सहभावनियमो भवति । यद्यपि १ “उद्गीथमुपासीत" इत्यस्मिन् पदसमुदायेऽधिकारान्तरं न प्रतीयते; तथापि तदनन्तरमेव २ " यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति" इति विद्यायाः ऋतुवीर्यवत्तरत्वं प्रति साधनभावः प्रतिपाद्यते । तेन ऋतुफलात्पृथग्भूतफलसाधनभूता विद्या "उद्गीथमुपासीत" इति कर्तव्यतया विधीयते । ऋतुफलात्पृथग्भूतफलसाधनतयाऽवगतस्योपासनस्य त्वङ्गभूतोद्गीथातया विनियोगो नोपपद्यते । अथ उपासनस्याश्रयापेक्षायां सन्निहित ate आश्रयमा भवति । उद्गीथश्च ऋत्वङ्गभूत इति ऋतुप्रयुक्तोद्गीयाद्याश्रये उपासने ऋत्वधिकारिण एव क्रतोर्वीर्यवत्तरत्वेच्छानिमित्तमिदमधिकारान्तरमिति न ऋतुषु तदुपादाननियमः । वीर्यवत्तरत्वं च ऋतुफलस्य प्रबलकर्मान्तरफलेनाप्रतिबन्ध इत्युक्तम् । ऋतोरविलम्बितफलत्वमित्यर्थः । पर्णतादीनां तु २ “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति" इति विद्यायाः फलसाधनत्ववदपाप श्लोकश्रवणादिफलं प्रति साक्षात्सावनभावो न श्रुत इति ऋत्वङ्गभूतजुहाद्यङ्गतया विनियोगाविरोधात - दचभूतानां फलान्तरसाधनभावकल्पनानुपपत्तेस्तव फलश्रुतिरर्थवादमावं स्यात् ॥ ६३ ॥ दर्शनाच्च । ३ । ३ । ६४॥ दर्शयति च श्रुतिरुपासनोपादानानियमम् ३" एवं विद्धवै ब्रह्मा यज्ञं यजमानं सर्वोश्चत्विजोऽभिरक्षति" इति ब्रह्मणो वेदनेन सर्वेषा रक्षणं ब्रुवती । उद्गातृप्रभृतीनां वेदनस्यानियमे सत्येतदुपपद्यते । अनेन लिङ्गेन पूर्वोक्तानां समाहारादिलिङ्गानां प्रायिकत्वमवगम्यते । अतोऽनि १. छा. १-१-१॥२. छा. १-१-१० ॥३. छा. ४-१७-१० ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy