________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८
श्रीशारीरकमीमांसामाग्ये र्वहेत्वभावात्-तत्फलस्यापरिमितत्वाभावात् ; भूयस्त्वाप्रेशम समुपसाम्भवतीत्यर्थः॥ ५८॥
इति वेदान्तदीपे विकल्पाधिकरणम् ॥ २५ ॥
-
-
-
-Ma( श्रीशारीरकमीमांसाभाष्ये यथाश्रयभावाधिकरणम् ॥)..
अङ्गेषु यथाश्रयभावः । ३।३।५९॥
उद्गीथादिक्रत्वङ्गेष्वाश्रिताः १ "ओमित्येतदक्षरमुद्रीथमुपासीत" इत्यादिका विद्याः किमुद्गीथादिवत्क्रत्वर्थतया ऋतुषु नियमेनोपादेयाः, उत गोदोहनादिवत्पुरुषार्थतया यथाकाममिति विशये-नियमेनोपादेया इति युक्तम् । ननु चासां पुरुषार्थत्वेनानियमः प्रतिपादितः २"तनिर्धारणानियमस्तद्दष्टेः पृथग्ध्यप्रतिबन्धः फलम्" इत्यत्र । सत्यम् । तदेव द्रढयितुं कैश्चिल्लिङ्गदर्शनैर्युक्त्या चाक्षिप्यते । तत्र हि "तेनोभी कुरुतः" इत्यनियमदर्शनात्पृथक्फलत्वमुक्तम् । उपासनाश्रयभूतोद्गीयादिबद्धपासनानामप्यङ्गतयोपादाननियमे बहवो हेतव उपलभ्यन्ते ; न बत्र ४“गोदोहनेन पशुकामस्य प्रणयेत्" इत्यादिवदुपासनाविधिवाक्ये फलसम्बन्धः श्रूयते ; १“उद्गीथमुपासीत" इत्युद्गीथादिसम्बन्धितयैवोपासनं प्रतीयते । ३“यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरम्" इति वर्तमानापदेशरूपवाक्यान्तरादि फलसम्बन्धो ज्ञायते ; खवाक्येनैवाव्यभिचरितक्रतुसम्बन्ध्युद्गीथादिसम्बन्धेन नितिक्रत्वङ्गभावस्य वाक्यान्तरस्थवर्तमानफलसम्बन्धनिर्देशोऽर्थवादमानं स्यात् , अपापश्लोकश्रवणादिवत् । अतो यथोद्गीथादय उपासनाश्रयाः क्रत्वातया प्रयोगविधिना नियमेनोपादीयन्ते ; तथा तदाश्रिताश्चोपासनास्तन्मु
१. छा, १-१-१॥-२. शारी. ३-३-४१
-३. छा. १.१.१.१-४॥
For Private And Personal Use Only