________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
विकल्पाधिकरणम् सां विकल्प एव ॥ ५७॥
ब्रह्ममाप्तिव्यतिरिक्तफलास्तु विद्यास्वर्गादिफलफर्मवयथेष्टं विकल्पेरन् , समुचीयेरन्वा, तासां परिमितफलत्वेन भूयस्त्वापेक्षासम्भवात् । सदाहकाम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्व
भावात् । ३।३।५८॥ अपरिमितफलत्वाभावादित्यर्थः ॥ ५८ ॥
इति भीशारीरकमीमांसाभाष्ये विकल्पाधिकरणम् ॥ २५ ॥
वेदान्तसारे विकल्पोऽविशिष्टफलत्वात् ।। एकस्मिन्नुपासके स. सां परविद्यानां विकल्पः, अपरिच्छिन्नानन्दरूपब्रह्मानुभवफलस्याविशिषस्वात् ॥५७॥
काम्यास्तु यथाकामं समुच्चीयेरन वा पूर्वहेत्वभावात॥ ब्रह्मव्यतिरिक्तविद्याफलस्य परिमितत्वात् भूयस्त्वापेक्षया समुच्चयस्संभवति, यथाकामं समुचीयरन् । विकल्परन्वा ॥५८॥
इति वेदान्तसारे विकल्पाधिकरणम् ॥१५॥
वेदान्तदीपे-विकल्पोऽविशिष्टफलत्वात् ॥ सद्विद्याभूमविद्यादिकानां ब्रह्मप्रासिफलानामेकस्मिन्पुरुषे समुच्चयोऽपि संभवति, नेति संशयः। अमिहोत्रदर्शपूर्णमालज्योतिष्टोमादीनां स्वर्गकफलानां तत्र भूयस्त्वापेक्षया बथैकस्मिन्पुरुष समुचयो दृश्यते ; तथाऽत्रापि ब्रह्मानुभवभूयस्त्वापेक्षयैकस्मिन् पुरुषे समुण्यस्सम्भवति- इति पूर्वः पक्षः। देशतः कालतस्वरूपतश्चानवच्छिन्नानन्दखरूपब्रह्मानुभवस्सर्वासां परविद्यानां फलम् । तथैकया विद्ययाऽपाप्तमित्येकस्मिन्पुरुषे विद्यान्तरसमुच्चयः प्रयोजनाभावान सम्भवतीति सर्वासां विकल्पः-इति राधान्तः । सूत्रमपि व्याख्यातम् ॥५७ ॥
काम्यास्तु यथाकामं समुच्चीयेरन वा पूर्वहेत्वभावात् ॥ ब्रह्मप्राप्तिम्यतिरिक्तफला विद्याः काम्याः। तास्तु यथेष्टं समुचीयेरन् । विकल्पेरन्वा,पू.
For Private And Personal Use Only