SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( श्रीशारीरकमीमांसाभाष्ये विकल्पाधिकरणम् ॥ २५ ॥ विकल्पोऽविशिष्टफलत्वात् । ३ । ३ । ५७ ॥ समाप्तिफलानां सद्वियादहरविद्यादीनां नानात्वमुक्तम् इदानीमासां विद्यानामेकस्मिन् पुरुषे प्रयोजनवत्वेन समुचयोऽपि सम्भबति, उत प्रयोजनाभावाद्विकल्प एवेति विशये किं युक्तम् ; समुचयोऽपि सम्भवतीति ; कृतः एकफलानां भिन्नशास्त्रार्थानामपि समुच्चयदर्शनात । दृश्यते ह्येकस्यैव स्वर्गादेस्साधनानामग्निहोत्रदर्शपूर्णमासादीनां तस्यैव स्वर्गस्य भूयस्त्वापेक्षयैकत्र पुरुषे समुच्चयः ; एवमिहापि ब्रह्मानुभव भूयस्त्वापेक्षया समुच्चयोऽपि सम्भवतीति ॥ (सिद्धान्तः. ) एवं प्राप्ते प्रचक्ष्म - विकल्प एव ; न समुच्चयस्सम्भवतीति । कु. तः १ अविशिष्टफलत्वात्-सर्वासां हि ब्रह्मविद्यानामनवधिकातिशयानन्दब्रह्मानुभवः फलमविशिष्टं श्रूयते १ “ब्रह्मविदामोति परम् " २" स एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य " ३" यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इत्यादिभ्यः । ब्रह्म हि स्वस्य परस्य च स्वयमनुभूयमानमनवधिकातिशयानन्दं भवति । स च तादृशो ब्रह्मानुभव एका विद्ययाऽवाप्यते चेत् — किमन्ययेति न समुच्चयम्भवः । स्वर्गादेर्हि देशतः कालतः स्वरूपतश्च परिमितत्वेन तल देशाद्यपेक्षया भूयस्त्वसम्भवात्तदर्थिनस्समुच्चयस्सम्भवति ; इह तु तद्विपरीतस्वरूपे ब्रह्मणि तन्न सम्भवति । सर्वाश्च विद्याः ब्रह्मानुभवविरोध्यनादिकर्माविद्यानिरसनमुखेन ब्रह्ममाप्तिफला इत्यविशिष्टफलत्वात्सर्वा २. तै. आन, १ - अनु. १ ॥ -२ तै भन, ८-अनु. ४३. इ. ६-१-३ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy