________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
शब्दादिभेदाधिकरणम् .
कविषयाः; तथाऽपि तत्तत्प्रकरणोदितजगदेककारणत्वापहतपाप्मत्वादिविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्त्यवबोधिनः प्रत्ययावृत्तिरूपाः विया भिन्दन्ति । ब्रह्माप्तिरूपफलसम्बन्ध्युपासनविशेषाभिधायीनि च निराकाङ्क्षाणि वाक्यानि प्रतिप्रकरणं विलक्षणविद्याभिधायीनीति निश्चीयते । अस्मिन्नर्थे १"शब्दान्तरे कर्मभेदः" इत्यादिभिः पूर्वकाण्डोदितैस्तूलैस्सिद्धेऽपि पुनरिह प्रतिपादनं वेदान्तवाक्यानि अविधेयज्ञानपराणीति कुदृष्टिनिरसनाय । अतो विद्याभेद इति स्थितम् ।। ५६ ।। इति श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम् ॥ २४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
९ पूर्व-मी. १-१-२ ॥
*44
वेदान्तसारे-नाना शब्दादिभेदात् ॥ सद्विद्याभूमविद्यादीनां प्रह्मण एकस्यैवोपास्यत्वे तत्प्राप्तेरेव फलत्वेऽप्युपास्यत्वप्रकारभेदाद्विद्याभेदः । प्रकारभेदग्ध शब्दान्तराद्यनुबन्धभेदादवगम्यते । पूर्वकाण्डोदितमपि ज्ञानस्याविधेयत्वं ब्रुवतां निरसनाय पुनरारब्धम् ॥ ५६ ॥
इति वेदान्तसारे शब्दादिभेदाधिकरणम् || २४ ॥
३४५
वेदान्तदीपे - नाना शब्दादिभेदात् ॥ सद्विद्यादहरविद्याशाण्डि ल्यविद्याभूमविद्यादिकाः ब्रह्मोपासनरूपाः ब्रह्मप्राप्तिफलाः किमेकविद्या, उत नानेति संशयः । उपास्यस्य ब्रह्मणः फलस्य चैकत्वात्, 'वेद' 'उपासीत' इति च पर्यायत्वादेकविद्येति पूर्वः पक्षः । ब्रह्मण एकत्वेऽपि जगदेककारणत्वापद्दतपाप्मत्वाद्यनुबन्धभेदहेतुभिः पूर्वकाण्डोदितानुबन्ध भेदहेतुभिश्शब्दान्तरादिमिरेवानुबन्धभेदान्नानाभूता इति राद्धान्तः । शब्दान्तरादिभिस्तत्रोदितैरेव वि द्याभेदसिखावपीह पुनर्वचनं ब्रह्मप्राप्तिहेतुभूतं वेदान्तोदितं ज्ञानमविधेयमिति कुदृष्टिनिरासार्थम् । सूत्रार्थस्तु - सद्विद्याभूमविद्यादिका नानाभूताः, ब्रह्मण एकत्वेऽपि समापहतपाप्मादिशब्दभेदात् । आदिशब्दात् अभ्याससङ्गपागुणप्रकियानामधेयानि गृह्यन्ते ॥ ५६ ॥
इति वेदान्तदीपे शब्दादिभेदाधिकरणम् ॥ २४ ॥
For Private And Personal Use Only