________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाग्ये
[अ. ३. षेण भोग्यभूतं परं ब्रह्मानुभवति, तद्विरोधिनश्च सर्वपाप्मनः दहतीत्युक्तमिति गम्यते । अत एकवाक्यत्वात्समस्तस्यैवोपासनं कार्यम् । व्यस्तवादस्तु वर्लो कादीनां मूर्धाद्यवयवत्वज्ञापनार्थः। तत्रतत्र च फलवादः१"वैश्वानरं द्वादशक पालं निर्वपेत्पुत्रे जाते यदष्टाकपालो भवति' इत्यादिवद्दष्टव्यः । सूत्रार्थस्तुभूम्नो ज्यायस्त्वम्-समस्तोपासनस्य श्रेष्ठथम् ; प्रामाणिकत्वमित्यर्थः । एकवाक्यत्वावगतः व्यस्तवादः क्रतुवद्दष्टव्यः। “वैश्वानरं द्वादशकपालं निर्वपेत् ...य. दष्टाकपालः" इत्यादिः क्रताविवेत्यर्थः । तथाहि दर्शयति-समस्तोपासनस्य ज्यायस्त्वमेव दर्शयति श्रुतिः--२"मूर्धा ते व्यपतिष्यवन्मां नागमिष्यः" इत्यादिना व्यस्तोपासनेऽनर्थ बुवती ॥ ५५ ॥
इति वेदान्तदीपे भूमज्यायस्त्वाधिकरणम् ॥ २३ ॥ --(श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम्।।२४॥)....
नाना शब्दादिभेदात् । ३।३। ५६ ॥
इह ब्रह्मविद्यास्सर्वाः ब्रह्मप्राप्तिरूपमोक्षैकफलाः सद्विद्याभूमविद्यादहरविद्योपकोसलविद्याशाण्डिल्यविद्यावैश्वानरविद्यानन्दमयविद्याक्ष - रविद्यादिका एकशाखागताश्शाखान्तरगताचोदाहरणम् ; अन्याः प्राणाघेकविषयफलाश्च । किमत्र विद्यै क्यम्, उत विद्याभेद इति संशय्यते । अत्रैवासां परस्परभेदे समर्थिते सत्येकस्या दहरविद्यादिकायास्स
वेदान्तप्रत्ययन्यायः । किं युक्तम् ? विद्यैक्यमिति । कुतः १ वेद्यस्य बह्मण एकत्वात् । वेद्यं हि विद्याया रूपम् । अतो रूपैक्याद्विद्युक्यमिति।
-- (सिद्धान्तः)-..-. एवं प्राप्तेऽभिधीयते-नाना-इति । नानाभूता विद्याः कुतः ? शब्दादिभेदात्-आदिशब्देनाभ्याससङ्ख्यागुणप्रक्रियानामधेयानि गृछन्ते ; शब्दान्तरादिभिरत्र विधेयभेदहेतवोऽनुबन्धभेदाः दृश्यन्ते ; यद्यपि वेदोपासीतेत्यादयः शब्दाः प्रत्ययावृत्त्यभिधायिनः प्रत्ययाश्च ब
१. यजु. ५-५-२ ॥ २. छा. ५-१२-२ ॥
For Private And Personal Use Only