________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] भूमज्यायस्त्वाधिकरणम् .
३४३ वेदान्तसारे-भून्नः क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ वैश्वान रविद्यायां त्रैलोक्यशरीरतयोपास्यस्य स्वर्लोकादिपृथिव्यन्तानां वैश्वानरात्मनो मूर्धादिपादपर्यन्तावयवत्वमभिधाय "यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु" इत्यादिना ब्रह्मानुभवः फलं चाभिहितम्। तत्र मूर्धाद्यवयवोपासनात् भूनः समस्तोपासनस्य ज्यायस्त्वं प्रामाणिकत्वमस्ति, तत्रैव ब्रह्मानुभवफलाभिधानात् । तत्रावयवोपासनम्, तत्रतत्र फलकीर्तनं च क्रताविव द्रष्टव्यम् । यथा २"वैश्वानरन्द्वादशकपालं निर्व पेत्पुत्रे जाते" इत्यु. क्त्वा,२ “यदष्टाकपालो भवति"इत्यादौ; तथा समस्तोपासनस्यैव श्रेष्ठश्यन्दर्शयति श्रुतिः ३"दिवमेव भगवो राजन्" इत्यवयवोपासनेऽभिहिते ३"मूर्धा ते व्यपतिष्यद्यन्मानागमिष्यः" इत्यादिनाऽनर्थ ब्रुवती ॥ ५५॥
इति वेदान्तसारे भूमज्यायस्त्वाधिकरणम् ॥ २३ ॥
वेदान्तदीपे-भूम्नः क्रतुवज्ज्यायस्त्वं तथाहिं दर्शयति ॥ वैश्वान. रविद्यायां स्वर्लोकादित्यवाय्वाकाशपृथिव्यवयवो वैश्वानरात्मोपास्यश्श्रुतः; तत्र किं व्यस्तस्यैवोपासनं कार्यम् , उत व्यस्तस्य समस्तस्यच, अथ समस्तस्यैवेति संशयः । ३" औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्" इत्यादिना खर्लोकादिपृथिव्यन्तानां वैश्वानरात्मनो मूर्धादिपादान्तावयवत्वमभिधाय, तत्रतत्र व्यस्तस्यैवोपासनं फलं च विहितमिति पश्चात् १ “यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इति पूर्वोक्तस्य समासेनोपसंहार इति युक्तम् । अतो व्यस्तस्यैवोपासनं कार्यमिति प्रथमः पक्षः । समस्तो पासनस्य १"सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेप्वात्मस्वान्नमत्ति" इति व्यस्तोपासनफलेभ्यः फलान्तरविधानाधस्तस्य समस्तस्यचोपासनं कार्यमिति द्वितीयः पक्षः । राद्धान्तस्तु-४"भात्मानं वैश्वानरं सम्प्रत्यध्येषि तमेव नो अडि" इस्यारभ्य वैश्वानरात्मनस्वर्लोकादिपृथिव्यन्तानां मूर्धादिपादान्तावयवत्वमभि. धाय, १"यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं धैश्वानरमुपास्ते स सर्वेषु लोकेषु" इत्युपसंहारादेकस्यैव वैश्वानरात्मनः त्रैलोक्यशरीरस्य परस्य ब्रह्मणः उपासनं विधाय फलं च १"सर्वेष्वात्मखान्नमत्ति" इति ५"तद्यथेषीकतूलमनौ प्रोतं प्रदूयेतैवं हास्य सर्व पाप्मानः प्रदूयन्ते"इतिच सर्वेषामात्मनामविशे
१. का. ५-१८-१॥-२. यजु. २-२-५ -अनु ॥-३. छा, ५-१२-१,२ ॥ - ४. का.५-११-६॥-५. छा.५.२४.३॥
For Private And Personal Use Only