________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२ श्रीशारीरकमीमांसाभाज्ये
[भ. ३. तथा हि १"प्राचीनशाल औपन्यवः" इत्युपक्रम्य १"उद्दालको ह वै भगवन्तोऽयमारुणिस्सम्पतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छाम" इति वैश्वानरात्मबुभुत्सयौपमन्यवादयः पञ्च महर्षयः तमुद्दालकमुपेत्य तत्र वैश्वनरात्मवेदनमलभमानास्तेन च सहाश्वपति केकयं वैश्वानरात्मवेदिनमुपसङ्गम्य २"आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि" इति पृष्ट्वा तत्सकाशात् परमात्मानं वैश्वानरं वर्लोकादिपृथिव्यन्तशरीरमुपास्यमवगम्य तत्फलं च सर्वलोकसर्वभूतसर्वात्मानभूतब्रह्मानुभवमवगतवन्त इत्योपसंहारतो वाक्यस्यैकत्वमवगम्यते । एवमेकवाक्यत्वेऽवगते सत्यवयवविशेषेषपास्तिवचनं फलनिर्देशश्च समस्तोपासनैकदेशानुवादमात्रमिति निश्चीयते । ऋतुवक-यथा ३"वैश्वानरं द्वादशकपालं निर्वपेत् पुढे जाते" इति विहितस्यैव तोरेकदेशाः ३“यदष्टाकपालो भवति" इत्यादिभिरनूयन्ते ; तथा समस्तोपासनमेव न्याय्यम् , न व्यस्तोपासनम् । तथाहि दर्शयतीयं श्रुतिः व्यस्तोपासने अनर्थ ब्रुवती ४"मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः" इति ५"अन्धोऽभविष्यो यन्मां नागमिष्यः" इत्यादिका । अत इदमप्यपास्तं, यन्नामाद्युपासनसाम्यमुक्तम् । तत्रहि नामाद्युपासनेप्वनों न श्रतः, नामाद्युपासनेभ्यो भूमोपासनस्यातिशयितफलत्वं श्रुतम् ६"एष तु वा अतिवदति यस्सत्येनातिवदति" इति । तत एव तत्र भूमविद्यापरत्वेऽपि वाक्यस्य नामाद्युपासनानां सफलानां विवक्षितत्वम् ; अन्यथाऽति. शयितफलत्वनिमित्तातिवादेन भूमविद्यास्तुत्यनुपपत्तेः, अतस्समस्तोपासनमेव न्याय्यम् ॥ ५५॥
इति श्रीशारीरकमीमांसाभाष्ये भूमज्यायस्त्वाधिकरणम् ॥ २३ ॥
१. छा, ५-११-१,२॥-२. छा. ५-११-६ ॥ -३. यजु. २-२.५-अनु ।। - ४. छा. ५-१२-२ ॥-५, छा. ५-१३-२ ॥-६. छा. ७.१६-१॥
For Private And Personal Use Only