________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमज्यायस्त्वाधिकरणम् .
३४१ यवविशेषाः। तत्र संशयः-किमस्य त्रैलोक्यशरीरस्य व्यस्तस्योपासनं कर्तव्यम् , उत व्यस्तस्य समस्तस्यच, अथ समस्तस्यैवेति। किं युक्तम्? व्यस्तस्येति कुतः? उपक्रमे व्यस्तोपासनोपदेशात् । तथायुपदिश्यते
औपमन्यवादयः किलोदालकषष्ठाः केकयमश्वपतिमुपसद्य र “आत्मानमेवेमं वैश्वानरं सम्पत्यध्येषि तमेव नो ब्रूहि" हीत पप्रच्छुः । स च तेभ्यः प्रत्येकं खोपास्यान् युप्रभृतीनुक्तवद्भयो मूर्धादिषु व्यस्तेषूपासनं तत्रतत्र फलं चोक्तवान् २"अत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चस कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति एष वै सुतेजा आत्मा वैश्वानरः" इत्यादिना । तेषुतेषूपासनेपास्यस्य वैश्वानरत्वं चाह । अतो व्यस्तस्योपासनं कर्तव्यम् । परत्र ३ “यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते" इति । घुप्रभृतिप्रदेशावच्छिन्नमात्रे वैश्वानरे उक्तस्य मूर्धाधुपासनस्य समासेनोपसंहार इत्यवगन्तव्यम् । अपर आह-एवमेव समस्तस्याप्युपासनं कार्यमिति, पृथक्फलनिर्देशात् ३“यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" इति । नचैतावता वाक्यभेदः, यथा भूमविद्योपक्रमे नामायुपासनं तत्तत्फलञ्चाभिधाय ४"एष तु वा अतिवदति यस्सत्येनातिवदति" इत्यादिना भूमविद्यामुपदिश्य ५“स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति" इति तत्फलश्च व्यपदिशति; तत्र भूविद्यापरत्वेऽपि वाक्यस्य नामाद्यवान्तरोपासनं तत्तत्फलं चाङ्गीक्रियते, तथा इहापीति ॥
(सिद्धान्तः)--- एवं प्राप्तेऽभिधीयते-भूम्नो ज्यायस्त्वमिति । भूम्नः-विपुलस्य समस्तस्यैव, ज्यायस्त्वं-प्रामाणिकत्वमित्यर्थः, एकवाक्यत्वावगतः ।
१. छा. ५-११-६ ॥–२. छा. ५.१२.२॥ -३. छा. ५-१८-१॥--४.छा, ७-१६-१॥-५.छा. ७-२५.२ ॥
For Private And Personal Use Only