________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४० श्रीशारीरकमीमांसामान्ये
[.. नियामकम् ; अत उद्गीथानुबन्धित्वात् प्रतिशास्खं कार्याः ॥ ५३॥
मन्त्रादिवद्वाऽविरोधः॥ वाशब्दोऽवधारणे ; यथा क्रत्वङ्गभूतानां म. प्राणामेकैकशखागतानामपि सर्वशाखागतकत्वन्वयेनाविरोधः॥५४॥
इति वेदान्तसारे अङ्गावबद्धाधिकरणम् ॥२२॥
वेदान्तदीपे-अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ १"ओमित्येतदक्षरमुद्गीथमुपासीत" इत्युद्गीथादिकत्वङ्गाश्रया उपासनाश्श्रूयन्ते ; ताः किं यासु शाखासु श्रूयन्ते, तावेव व्यवस्थिताः, उत सर्वासु शाखासु सम्बद्धा इति संशयः । शाखासु स्वरभेदात्प्रतिशाखमुद्रीयभेदेन यत्र थूयन्ते, तत्रस्थोदी. थादेस्सन्निधानात्तेनैवान्विता व्यवस्थिता इति पूर्वः पक्षः। राद्धान्तस्तु-पद्यप्युद्गीथव्यक्तिभेदो विद्यते, तथापि तत्रतत्र चोद्गीथजातीयत्वेन सम्बन्धात्सर्वेषां चोद्गीथजातीयत्वाविशेषात् १" उद्गीथमुपासीत" इति श्रुत्यैव सर्वसम्बन्ध इति सर्वशाखासु सम्बध्यन्ते । सूत्रार्थस्तु-न त्वङ्गावबद्धा उपासनास्तासु शाखासु व्यवस्थिताः, अपितु प्रतिवेदं सर्वशाखासु सम्बध्यन्त इत्यर्थः । हिहे. तौ । यस्मादुद्गीथजातीयत्वाविशेषेण सर्वसम्बन्धः, तस्मादित्यर्थः ॥ ५३॥
__ मन्त्रादिवद्वाऽविरोधः ॥ वाशब्दश्चार्थे ; यथा मन्त्रादीनां क्रत्वङ्गभूता. नामेकैकशाखाभिहितानां सर्वशाखासु तोरेकत्वेन सर्वत्र सम्बन्धो न विरुध्यते; तद्वञ्चाविरोधः ॥ ५४॥
इति वेदान्तदीपे अङ्गावबद्धाधिकरणम् ॥ २२ ॥
....(श्रीशारीरकमीमांसाभाष्ये भूमज्यायस्त्वाधिकरणम्॥२३॥)...
भूम्नः क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति।३।३।५५
२ "प्राचीनशाल औपमन्यवः" इत्यारभ्य वैश्वानरविद्या आम्नाता; तत्र वैश्वानरः परमात्मा त्रैलोक्यशरीर उपास्यश्श्रुतः खर्लोकादित्यवास्वाकाशाप्पृथिव्यवयवः । तत्र च द्यौर्धा, आदित्यश्चक्षुः, वायुः प्राणः, आकाशस्सन्देहः मध्यकाय इत्यर्थः; आपो वस्तिः पृथिवी पादावित्यव
१. छा. १-१-१॥-२. छा. ५-११-१॥
For Private And Personal Use Only