________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
अङ्गावबद्धाधिकरणम्.
सर्वासु शाखानुद्गीथादिषु सम्बध्यन्त इति विचारः । सर्ववेदान्तप्रत्ययत्वे स्थितेऽपि प्रतिवेदं स्वरभेदादुद्गीथादयो भिद्यन्त इति तत्त्रतत्र व्यवतिष्ठेरनिति युक्ता शङ्का । किं युक्तम् : व्यवतिष्ठेरन्निति । कुत: ११ “उद्गीथमुपासीत " इति सामान्येनोद्गीथसम्बन्धितया श्रुतायास्तस्यामेव शाखायां स्वरविशेषयुक्तस्योद्गीथविशेषस्य सन्निधानात्तस्मिन्नेव विशेषे पर्यवसानं युक्तमिति । एवमाद्यास्तास्खेव शाखासु व्यवतिष्ठेरन्निति ॥ ( सिद्धान्तः )-- एवं प्राप्ते प्रचक्ष्महे - अङ्गावबद्धास्तु — इति । तुशब्दः पक्षं व्यावर्तयति ; नथुद्गीथाद्यङ्गावबद्धा उपासनास्तास्वेव शाखासु व्यवतिष्ठेरन् ; अपितु प्रतिवेदं सम्बध्येरन् ; सर्वासु शाखास्त्रित्यर्थः । हिशब्दों हेतौ । यस्माच्छुत्यैवोद्गीथाद्यङ्गमात्रावबद्धाः, तस्माद्यत्रोद्गीथादयः, तत्र सर्वत्र सम्बध्येरन् । यद्यपि स्वरभेदेनोद्गीथव्यक्तयो भिद्यन्ते ; तथापि सामान्येनोद्गीथश्रुत्या सर्वा व्यक्तयस्सन्निहिता इति न कचिद्व्यवस्थायां प्रमाणमस्ति । सर्वशाखाप्रत्ययन्यायेन च सर्वासु शाखासु क्रतुरेकः । अतसर्वासु शाखास्वेकस्य ऋतोस्सन्निधानात् त्वङ्गभूतोद्गीथादयोऽपि सनिहिता इति नैकस्य सन्निधिविशेषोऽस्तीति न व्यवस्था ॥ ५३ ॥ मन्त्रादिवद्वाऽविरोधः । ३ । ३ ५४ ॥
३३९
वाशब्दश्चार्थे ; आदिशब्देन जातिगुणसङ्ख्यासादृश्यक्रमद्रव्यकर्माणि गृह्यन्ते ; यथा मन्त्रादीनामेकैकशाखाखाम्नातानामपि शेषिणः ऋतोस्सर्वशाखास्येकत्वेन यथायथं श्रुत्यादिभिस्सर्वासु शाखासु विनियोगो न विरुध्यते ; तद्विदिहाप्यविरोधः ॥ ५४ ॥
For Private And Personal Use Only
इति श्रीशारीरकमीमांसाभाष्ये अङ्गावबद्धाधिकरणम् ॥ २२
-
वेदान्तसारे — अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ।। उद्गीथादित्वङ्गाश्रया उपासनाः यासु शाखासु श्रूयन्ते ; तास्वेव कार्या इति नास्ति
१. छा. १-१-१॥