________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३८
श्रीशारीरकमीमांसाभाध्ये मविधिष्विवोपासनविधिष्वपि तावतैव साधनानुष्ठानफलानुभवयोस्सम्भवात्। १"यथाक्रतुरस्मिल्लोके पुरुषो भवति" इति तु २ "तं यथायथोपासते" इत्यनेनैकार्थ्यात्परमात्मविषयम् । राधान्तस्तु-३"तत्त्वमसि'४"स त आत्माऽन्तर्याम्यमृतः" इति प्रत्यगात्मन आत्मतयैव परमात्मोपास्य इति प्रत्यगात्मनस्वरूपमप्युपासनान्तर्गतम् ; ५ " परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते" इति यथावस्थितात्मस्वरूपस्यैव ब्रह्मानुभवः फलमित्यतः १"यथाक्रतुरस्मिल्लोके पुरुषो भवति" इति न परमात्ममात्रविषयम् ; अपितु प्रत्यगात्मात्मभूतोपास्यविषयमिति प्रजापतिवाक्योदितं यथावस्थितस्वरूपमेवानुसन्धेयम् ; अन्यथा प्राप्योपास्ययोः प्रकारभेदात् १ “यथाक्रतुरस्मिन्" इति विरुध्यते; ६ "यजेत स्वर्गकामः" इत्यादिकर्मविधौ तु कर्तृवरूपानुसन्धानं न साधनान्तर्गतमिति विशेषः । सूत्रार्थस्तु-कर्तृत्वादिविशिष्टमेवात्मनस्वरूपमनुसन्धेयमित्येके म. न्यन्ते ; कुतः शरीरे वर्तमानस्योपासितुरात्मनस्तथाभावात् ॥ ५१॥
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ न कर्तृत्वादिविशिष्टमनुसन्धेयम् ,अपितु सांसारिकखरूपान्मुक्तस्वरूपस्य यो व्यतिरेकः, सोऽनुसन्धेयः ; कुतः तथोपासनभावभावित्वाद्यतिरिक्तस्वरूपप्राप्तेः । १"यथाक्रतुर स्मिल्लोके पुरुषो भवति"इतिह्याह। उपलब्धिवत्-यथा ब्रह्मस्वरूपोपलब्धिर्यथावस्थितब्रह्मानुसन्धानयुक्तस्यैव, तथा आत्मोपलब्धिरपि ॥५२॥
इति वेदान्तदीपे शरीरेभावाधिकरणम् || २१॥
(श्रीशारीरकमीमांसाभाष्ये अनावबद्धाधिकरणम्॥ २२॥...
अङ्गावबद्दास्तु न शाखास हि प्रतिवेदम्॥३॥३॥५३।
७"ओमित्येतदक्षरमुद्गीथमुपासीत" " लोकेषु पञ्चविधं सामो. पासीत" ९"उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृ. थिवी" १. "अयं वाव लोक एषोऽग्निचितः" इत्येवमाद्याः क्रत्वङ्गाश्रया उपासना भवन्ति ताः किं यासु शाखासु श्रूयन्ते, ताखेव नियताः, उत
१. डा. ३-१४-१ ॥-२. मुद्गलोप. ३-ख ॥-३. छा. ६. ८.७॥-४. .. ५. ७-२२. मा.पा ॥-५.छा. ८-३.४॥-६. यजु. २-५-५ ॥~७. छा. १-१-१॥-८. छा, २-२.१॥-९॥-१.॥
For Private And Personal Use Only