________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३७
पा. ३.]
शरीरेभावोधिकरणम्. परब्रह्मशरीरतयोपास्यकोटिनिक्षिप्तत्वात् । अतः प्रजापतिवाक्योदितापहतपाप्मत्वादिगुणकप्रत्यगात्मशरीरपरमात्मोपासनस्य तथारूपमेव प्राप्यमित्युक्तं भवति । अत एव १“एवं ऋतुर्हामुं लोकं प्रत्याभिसम्भवितामि"इत्युच्यते।तस्मात्प्रत्यगात्मा प्राप्याकार एवानुसन्धेयः।उपलब्धिवत्यथा ब्रह्मोपलब्धिर्विहिता यथावस्थितब्रह्मस्वरूपविषया, तथाऽऽत्मोपलन्धिरपि यथावस्थितात्मस्वरूपविषयेत्यर्थः। कर्मस्वात्मस्वरूपानुसन्धानं कर्मानमः २"यजेत स्वर्गकामः" इति कर्मानुष्ठानमेव हि फलाय चोयते । देहातिरिक्तज्ञातृत्वाद्याकारात्मावगतिः कालान्तरभाविफलसाधनकर्मा - धिकारार्थेति तावन्मात्रमेव तत्रापेक्षितमिति न किश्चिदपहीनम्।। ५२॥
__ इति श्रीशारीरकमीमांसाभाष्ये शरीरेभावाधिकरणम् ॥ २१॥
वेदान्तसारे-एक आत्मनश्शरीरे भावात् ॥ शरीरे वर्तमानत्वादु. पासितुः, तस्य च कर्तृत्वभोक्तृत्वादिस्वरूपत्वात् , तथाऽवस्थितस्याऽत्मतया परविद्यासु परमात्मोपास्य इत्येके मन्यन्ते ॥ ५१ ॥
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ नैवम् , यत् कर्तृत्वादिस्वरूपस्यैवोपासितुरात्मतया परमात्माऽनुसन्धेय इति ; अपितूपासितुस्सा. सारिकस्वभावान्मुक्तस्वरूपस्य यो व्यतिरेकः अपहतपाप्मत्वादिगुणकत्वरूपः, सोनुऽसन्धेयः, तथाऽनुसन्धानभावभावित्वात् तत्स्वरूपोपलब्धेः; यथावस्थितस्वरूपब्रह्मानुसन्धानभाविनी हि ब्रह्मोपलब्धिः , तद्वत् ; ३"यथाक्रतुरस्मिन् लोके पुरुषः" इत्यादिश्रुतेः ॥५२॥
इति वेदान्तसारे शरीरेभावाधिकरणम् ॥ २१॥ वेदान्तदीपे-एक आत्मनश्शरीरे भावात् ॥ प्रत्यगात्मन आत्मत या हि परमात्मोपास्यः ; उपासकस्यापि स्वरूपमुपास्योपासनस्वरूपवत् ज्ञातव्यमित्युक्तं ४"प्रयाणाम्" इत्यादिनाः वक्ष्यतेच ५ "आत्मेति तूपगच्छन्ति" इति। तत्र किं प्रत्यगात्मनइशरीरे वर्तमानस्य कर्तृत्वभोक्तृत्वादिविशिष्टं रुपमनुसन्धेयम्, उत प्रजापतिवाक्योदितापहतपाप्मत्वादिगुणकं यथावस्थितं रूपमिति संशयः । शरीरे वर्तमानस्य यादृशं रूपम् , तदेवानुसन्धेयमिति पूर्वः पक्षः, क२॥-२.यजु.२-५-५॥-३. छा. ३.१४-१॥–४. शारी. १-४-६॥-५.शारी.४.१-३॥
•43
For Private And Personal Use Only